क्रिस्मस्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox holiday क्रिस्मस् इत्येतत् पर्व क्रैस्तमतावलम्बिनां महत् पर्व वर्तते । क्रिस्मस् क्रिस्तजयन्ती इत्येतत् क्रैस्तगुरोः येसुक्रिस्तस्य जन्म दिनम् । वर्षस्य डिसेम्बर् २५ दिनाङ्कं येसु क्रिस्तस्य जन्मदिनम् इति सर्वे आचरन्ति । क्रिस्तस्य सुवार्ता(गास्पे्ल) प्रकारं येसु क्रिस्त: मेरी तथा जोसेफ़ एतयो: पुत्र: भूत्वा इदानीन्तने इस्रे्लदेशे विद्यमाने बेत्लेहेम् इति नामके ग्रामे जन्म प्राप्तवान् । क्तुम् एक्स्-मस् इत्यपि वदन्ति ।

क्रिस्मस् वृक्षः

"शत्रुषु अपि स्नेहं कुर्वन्तु, ये भवद्भ्यः घृणां कुर्वन्ति, तेषामपि कल्याणं सम्पादयन्तु । ये भवद्भ्यो द्विषन्ति तेषामपि मंगलाय प्रार्थयन्ताम् । ये भवतः शपन्ति तानपि अनुकम्पताम् " इति सन्ति इमानि उपदेशवचनानि ख्रीष्टधर्मप्रवर्तकस्य ईसामसीहस्य । ईसामसीहः त्यागशीलः लोकोपकारकश्च महापुरुषः आसीत् । स विश्वं स्नेहस्य पाठममाठयत् । प्रायेण द्विसहस्रवर्षेभ्यः पूर्वं दिसम्बरमासस्य पञ्चविशे दिनाङ्के तस्य जन्म अभवत्। तस्य महात्मनः जन्मनः उपलक्ष्ये एव सर्वे तस्य अनुयायिनः इमं दिवसं पर्वरुपेण मानयन्ति। प्रतिवर्षं च पर्व इदं महता उल्लासेन क्रिस्मसोत्सवरूपेण संपन्नः भवति । तस्यैव पुण्यस्मृतौ ख्रीष्टीयः संवत्सरः प्रचलति ।

दिनाङ्क-निर्णयः

क्रिस्मस् एकं सार्वत्रिकं विरामदिनम् अपि अस्ति । क्रैस्तानां जनसङ्ख्या न्यूनं यत्र अस्ति जपान्, तादृश देशेषु अपि क्रिस्मस् पर्व समये, वर्षस्य विरामदिनम्, जीसस् एतस्य यतार्थ जन्म दिनाङ्कम् तथा ऐतिहासिकता विषये अपि केाना: वादा: सन्ति । क्रिस्तस्य जन्मदिनं निर्धारकरणस्य यत्नं द्वितीय शतमानत: आरम्भ: अभवत् । क्रैस्त चर्च् एतस्मिन् समये एव स्वस्य सम्प्रदायान् स्थापयितुं प्रयत्नं कुर्वत् आसीत् । तस्मिन् कालस्य सामान्यत: सर्वं मुख्य चर्च् अपि क्रिस्तस्य जन्मदिनं डिसेम्बर् २५ इति अङ्गीकुम् । सामान्यतया सवेर्षु क्रैस्त देशेषु अपि क्रिस्मस् दिनं केवलं न, तस्मिन् पूर्वं कानिचन दिनानि तस्य अनन्तरं कानिचन दिनानि योजयित्वा आचरणं कुर्वन्ति ।

आचरणम्

ख्रीष्टानुयायिनः अस्मिन् दिने विशेषतः विविधवर्णैः गुब्बारगोलकैः अन्यैश्च क्रीडनकैः "क्रिस्मस्तरुम्" विभूषयन्ति । एषु कोऽपि वयस्को जनः "सेण्टाक्लाज" इति नामकस्य महात्मनः वेषं धरति, बालकेभ्यः चोपायनानि वितरति । तस्य दुग्धधवलानि श्मश्रूणि रक्तं लम्बमान च परिधानं विलोक्य बालाः हृष्यन्ति, करतलध्वनिं च कुर्वन्ति । अयं सेण्टाक्लाजः 'फादरक्रिस्मस्' इति नाम्नापि ख्यातः अस्ति । अत्र इयं जनश्रुतिः, यत् पुरा चतुर्थ शतमाने निकोलसनामा कश्चित् दयालुः धनिकः निर्धनानां साहाय्यम् अकरोत् । बालानां विषये एतस्य अधिका प्रीति: आसीत् । अत: एव बालानां कृते स: एव प्रति वर्षम् उपायनान् आनयति इति वदन्ति । कालान्तरे शनैः शनैः स एव "सन्तनिकोलस्" इति ख्यातो अभवत् । अनन्तरं तमेव जनाः "सेण्टाक्लाज" इत्यपि कथयन्ति स्म ।

क्रिस्मस्

क्रिसमस दिवसे ख्रीष्टानुयायिनः "चर्च" इति ख्यातेषु प्रार्थना-गृहेषु सम्भूय प्रार्थनां कुर्वन्ति । सायंकाले गृहे गृहे विविधोत्सवाश्च आयोज्यन्ते । रात्रौ प्रार्थना-गृहाणि निवास-गृहाणि च दीपैः प्रकाश्यन्ते । एवं बहुविधैः आमोदैः प्रमोदैः ख्रीष्टानुयायिनः इमं महोत्सवं सम्पादयन्ति ।

क्रिस्मस् पर्वणः पूर्वतनं दिनं ’क्रिस्मस् ईव्’ इति नाम्ना आचरन्ति । क्रिस्मस् पर्वणः अनन्तरं द्वादशं दिनं ”एसिफ़नि” इति नाम्ना आचरन्ति । यथा क्रिस्मस् नूतन वर्श्:आरम्भस्य समीपे अस्ति इति कारणत: क्रिस्मस् त: नूतन वर्षारम्भ पर्यन्तमपि केान देशेषु विराम: भवति ।

सामाजिकाचरणम्

अनेक स्थानेषु क्रिस्मस् कार्यक्रमान् आचरन्ति । क्रिस्मस् पर्वणः निमित्तं गातुम् इत्येव वेशेषगीतानि भवन्ति (क्रिस्मस् क्यारो्ल) । क्रिस्मस् निमित्तं विशेषं भोजनं तु भवति एव - अनेकदेशेषु क्रिस्मस् पर्वणः निमित्तम् एव विशिष्टानि खाद्यानि निर्मान्ति ।

येसौक्रिस्तस्य जन्मचित्रम्

धार्मिक आचरणानि

क्रिस्मस् पर्वसम्बंद्धानि धार्मिकाचरणानि डिसेम्बर् मासस्य प्रारम्भे ”अड्वेण्ट्” त: आरम्भ: भवति - इदं पर्व क्रिस्तस्य जन्म निरीक्षमाणं पर्व । क्रिस्मस् पर्वणः केभ्यश्चित् दिनेभ्यः पूर्वं चर्च् सदृश स्थानेषु कानिचन आचरणानि क्रियन्ते । क्रिस्मस् ईव् तथा क्रिस्मस् दिनेषु विशेष पूजाः चर्च् मध्ये कुर्वन्ति । क्रिस्मस् पर्वणः अनन्तरं द्वादशे दिने ”एपिफ़नि” आचरणानन्तरं क्रिस्मस् काल: समाप्यते ।

टिप्पणी

फलकम्:Reflist

अधिकपठनाय पुस्तकानि

फलकम्:Refbegin

  • फलकम्:Cite book
  • The Battle for Christmas, by Stephen Nissenbaum (1996; New York: Vintage Books, 1997). ISBN 0-679-74038-4
  • The Origins of Christmas, by Joseph F. Kelly (August 2004: Liturgical Press) ISBN 978-0-8146-2984-0
  • Christmas Customs and Traditions, by Clement A. Miles (1976: Dover Publications) ISBN 978-0-486-23354-3
  • The World Encyclopedia of Christmas, by Gerry Bowler (October 2004: McClelland & Stewart) ISBN 978-0-7710-1535-9
  • Santa Claus: A Biography, by Gerry Bowler (November 2007: McClelland & Stewart) ISBN 978-0-7710-1668-4
  • There Really Is a Santa Claus: The History of St. Nicholas & Christmas Holiday Traditions, by William J. Federer (December 2002: Amerisearch) ISBN 978-0-9653557-4-2
  • St. Nicholas: A Closer Look at Christmas, by Jim Rosenthal (July 2006: Nelson Reference) ISBN 1-4185-0407-6
  • Just say Noel: A History of Christmas from the Nativity to the Nineties, by David Comfort (November 1995: Fireside) ISBN 978-0-684-80057-8
  • 4000 Years of Christmas: A Gift from the Ages, by Earl W. Count (November 1997: Ulysses Press) ISBN 978-1-56975-087-2
  • फलकम्:Cite book

फलकम्:Refend

बाह्यसम्पर्काः

फलकम्:Sister project links

"https://sa.bharatpedia.org/index.php?title=क्रिस्मस्&oldid=5984" इत्यस्माद् प्रतिप्राप्तम्