कोल्लूरु

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

मूकाम्बिकामन्दिरम्

कोल्लूरु (Kollur) कर्णाटकराज्यस्य उडुपीमण्डले विद्यमानं प्रसिद्धं यात्रास्थानं विद्यते । पुराणानुसारं महारणपुरम् इति इदं प्रसिद्धम् आसीत् । पश्चिमपर्वतश्रेणीषु कोडचाद्रिपर्वतस्य सानुप्रदेशे श्रीमूकाम्बिकादेवालयः महर्षिणा परशुरामेण निर्मितः इति पौराणिकाधारः अस्ति । अत्रत्या देवता पर्वतेश्वरी पार्वती श्रीमूकाम्बिकादेवी । इदं सिद्धपीठम्श्रीशङ्कराचार्याः तपः आचरणीयम् इति निश्चित्य अत्र आगत्य श्रीचक्राराधनं कृतवन्तः इति इतिहासे उल्लेखः अस्ति ।

गर्भगृहे स्वर्णरेखासहितः शिवलिङ्गः अस्ति । अत्र मूकाम्बिकादेवी शिवेन सह आगत्य लिङ्गरूपेण प्रत्यक्षा भूत्वा मूकासुरं घातितवती । अतः कोल्लूरु शिवशक्त्याः सङ्गमः इति वदन्ति। शक्तिक्षेत्रम् इत्यपि इदं प्रसिद्धम् । पञ्चमुखगणेशः अत्रत्यम् अन्यत् आकर्षणम् । दक्षिणभारतीयाः भक्ताः अत्र महता प्रमाणेन आगच्छन्ति । श्रीवादिराजस्वामिनः अत्र आगत्य देवीं कात्यायनीं 'दुर्गे' इति प्रार्थितवन्तः । प्रतिदिनम् अत्र होमहवनादिकम् अन्नदानं च प्रचलति।

मूकाम्बिकामन्दिरप्रवेशः

मार्गः

मूकाम्बिकारथः
कुन्दापुरतः ४८ कि.मी
बैन्दूरुतः ३२ कि.मी
उडुपीतः ८० कि.मी
शिवमोग्गा, बेङ्गलूरु, केरल, तमिळुनाडुतः अपि लोकयानव्यवस्था अस्ति ।

वसतिः

देवालयस्य वसतिगृहाणि सन्ति ।

बाह्यानुबन्धाः

फलकम्:कर्णाटकस्य तीर्थक्षेत्राणि

"https://sa.bharatpedia.org/index.php?title=कोल्लूरु&oldid=5000" इत्यस्माद् प्रतिप्राप्तम्