कृषिगौरक्ष्यवाणिज्यं...
नेविगेशन पर जाएँ
खोज पर जाएँ
श्लोकः
- कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् ।
- परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥ ४४ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य चतुश्चत्वारिंशत्तमः(४४) श्लोकः ।
पदच्छेदः
कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् परिचर्यात्मकं कर्म शूद्रस्य अपि स्वभावजम् ॥
अन्वयः
कृषिगौरक्ष्यवाणिज्यं स्वभावजं वैश्यकर्म । शूद्रस्य अपि परिचर्यात्मकं स्वभावजं कर्म ।
शब्दार्थः
- कृषिगौरक्ष्यवाणिज्यम् = भूकर्षणम् पाशुपाल्यम् क्रयविक्रयः च
- स्वभावजम् = प्रकृतिसम्भवम्
- वैश्यकर्म = वैश्यानां कर्म
- परिचर्यात्मकम् = शूश्रूषात्मकम्
- स्वभावजम् = स्वभावोत्पन्नम्
- कर्म = कर्तव्यम् ।
अर्थः
कृषिः, गवादिरक्षणम्, क्रयविक्रयश्च वैश्यानां स्वभावात् जातं कर्म । एतेषां त्रयाणामपि साहाय्याचरणं शूद्रस्य स्वभावात् जातं कर्म ।