कुलक्षये प्रणश्यन्ति...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ।
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥४०॥

अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य चत्वारिंशत्तमः ( ४०) श्लोकः ।


पदच्छेदः

कुलक्षये, प्रणश्यन्ति, कुलधर्माः, सनातनाः । धर्मे, नष्टे, कुलम्, कृत्स्नम्, अधर्मः, अभिभवति, उत ॥

अन्वयः

कुलक्षये सनातनाः कुलधर्माः प्रणश्यन्ति । धर्मे नष्टे कृत्स्नम् उत कुलम् अधर्मः अभिभवति ।।

शब्दार्थः

कुलक्षये = वंशनाशे
सनातनाः = प्राचीनाः
कुलधर्माः = वंशधर्माः
प्रणश्यन्ति = क्षीयन्ते
धर्मे = सनातनधर्मे
नष्टे = क्षीणे
कृत्स्नम् उत = सर्वम् अपि
कुलम् = वंशम्
अधर्मः = अनाचारः
अभिभवति = आक्राम्यति ।

अर्थः

कुलानि यदि नश्यन्ति तर्हि सनातनाः कुलधर्माः नश्यन्ति । धर्मः यदि नष्टः भवति तर्हि अधर्मः कुलानि आवृत्य तिति ।

बाह्यसम्पर्कतन्तुः

http://www.gitasupersite.iitk.ac.in

फलकम्:अर्जुनविषादयोगः

सम्बद्धाः लेखाः