कुरान्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox book फलकम्:इस्लाम् कुरान् शरीफ् (अरबी: القرآن आल्-क़ुर'आन्) मुस्लिमजनानां पवित्रः कश्चन ग्रन्थः । इस्लाम्-मतानुसारं भगवतः वाणीरूपेण ग्रन्थोऽयं मुहम्मद् नवी (प्रवक्ता) द्वारा खण्डशः भूलोके अवतीर्णः । समग्रकुरान्-ग्रन्थे ११४ सूराः(अध्यायाः) सन्ति । तथा आयात् (पङ्क्ति)संख्या ६,२३६ । कुरान्-ग्रन्थस्य मूलभाषा अरबी । इस्लामीय-भाष्यकारस्य मतानुसारं कुरान्-ग्रन्थः अपरिवर्तनीयः । अस्मिन् विषये आयाते (पङ्क्तौ) उक्तमस्ति -

फलकम्:Cquote

उत्पत्तिः

कुरान्, मुस्लिमजनानां पवित्रशास्त्रः

अरबी व्याकरणे कुरान् शब्दोयं 'मास्दार्' (क्रियावाचक-विशेष्य)रूपेण व्यवह्रियते । अयं शब्दः قرأ 'क्करा'आ' इत्यस्मात् क्रियापदात् निष्पन्नः, यस्य अर्थः 'पठनम्', वा 'आवृत्तिकरणं' । इदमेव क्रियापदं कुरान् पदस्य मूलत्वेन परिगण्यते[१] । ’कुरान्’शब्दस्य उच्चारणस्य "मास्दार्" (الوزن) (रागः) भवति غفران "गुफ्रान्"। एतया शैल्या उच्चारितश्चेत् अर्थः भवति अधिकः भावः, अध्यवसायः, कर्मसम्पादने एकाग्रता वा । एतस्मात् अवगम्यते कुरान् इत्यस्य अर्थः केवलं पठनम्, आवृत्तिकरणं वा न वरञ्च एकाग्रचित्तेन पठनम् इति । कुरान्-ग्रन्थेऽपि शब्दोऽयम् अस्मिन्नेव अर्थे प्रयुक्तः अस्ति । कुरान्-ग्रन्थस्य ’सूरा-आल्-कियामह्’ इत्येतस्यां ७५ तमसूरायाम् (अध्याये), १८ तमे आयाते (पङ्क्तौ) कुरान् शब्दस्य उल्लेखः अस्ति -

फलकम्:Cquote

संज्ञा

मुस्लिम्-मतानुसारं मुहम्मद्(मुस्लिमजनानां प्रवक्ता (अल्लाह्स्यदूतः)वाणीं साक्षात् अरबीभाषया प्राप्तवान् आसीत् । ग्रन्थोऽयं मु'जिया (अलौकिकः) तथा मानवजातेः पथप्रदर्शकः । मुस्लिमजनानां विश्वासः विद्यते यत् कुरान्-ग्रन्थे मानवानां सर्वविधानां समस्यानां समाधानमस्ति । एवञ्च अयं ग्रन्थः पूर्णाङ्गजीवनविधानं[२] बोधयति ।

विभिन्नविषयक-आयाताः (पङ्क्तयः)

फलकम्:Div col

  • आदेशात्मकाः आयाताः= १०००
  • निषेधात्मकाः आयाताः= १०००
  • भीत्यात्मकाः आयाताः= १०००
  • प्रतिज्ञात्मकाः आयाताः= १०००
  • दृष्टान्तात्मकाः आयाताः=१०००
  • इतिहासात्मकाः आयाताः= १०००
  • प्रशंसात्मकाः आयाताः= २५०
  • पूर्णतात्मकाः आयाताः=१००
  • उद्देश्यात्मकाः आयाताः=२५०
  • इतराः = ६६
  • आहत्य = ६२३६[३]

फलकम्:Div col end

विभिन्नाध्यायानां पङ्क्तीनां च प्रसिद्धिः

[४]

टिप्पणी

फलकम्:Reflist

अनुवादाः

तथ्यानुसन्धानम्

मातृकाः

श्रव्य-दृश्यपरिकराः

  1. BYU Studies, vol. 40, number 4, 2001. Page 52
  2. आल्-इहकाम्, आल्-आमिदि
  3. चन्द्रः तथा कुरान्, जाकिर् नायेक्, मल्लिक् ब्रादर्स्
  4. चन्द्रः तथा कुरान्, जाकिर् नायेक्, मल्लिक् ब्रादर्स्
"https://sa.bharatpedia.org/index.php?title=कुरान्&oldid=6098" इत्यस्माद् प्रतिप्राप्तम्