कामात्मानः स्वर्गपरा…

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement कामात्मानः स्वर्गपरा (फलकम्:IPA audio link) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अव्यवसायिनः मनुष्यस्य अनन्ताः बुद्धयः कथम् इति वर्णयति । पूर्वस्मिन् श्लोके भगवान् मनुष्यस्य अनन्तबुद्धेः वर्णनम् आरभते, अत्र तस्य श्लोकस्य अन्वयोऽपि भवति । पूर्वस्य, अस्य श्लोकस्य च अन्वयः अग्रिमेण श्लोकेन सह अस्त्यत्र । अतः अग्रिमे भोगैश्वर्यप्रसक्तानां... इत्यस्मिन् श्लोके भावार्थः उक्तः ।

श्लोकः

गीतोपदेशः
कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम्।
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति॥४३॥

पदच्छेदः

कामात्मानः, स्वर्गपराः, जन्मकर्मफलप्रदाम् । क्रियाविशेष, बहुलाम्, भोग, ऐश्वर्य, गतिम् ॥

अन्वयः

कामात्मानः स्वर्गपराः जन्मकर्मफलप्रदां भोगैश्वर्यगतिं प्रति क्रियाविशेषबहुलाम्।

शब्दार्थः

अन्वयः विवरणम् सरलसंस्कृतम्
कामात्मानः कामात्मन्-न.पुं.प्र.बहु. कामैः कलुषिताः
स्वर्गपराः अ.पुं.प्र.बहु. स्वर्गं इच्छन्ति ये
जन्मकर्मफलप्रदाम् आ.स्त्री.द्वि.एक. जन्म तथा कर्मफलं प्रदाम्
भोगैश्वर्यगतिं इ.स्त्री.द्वि.एक. भोगानाम् ऐश्वर्यानां साधनं
प्रति अव्ययम् प्रति
क्रियाविशेषबहुलाम् आ.स्त्री.द्वि.एक. विविधाः क्रियाः प्रकृष्टं वाक्यं वदन्ति

व्याकरणम्

सन्धिः

  1. स्वर्गपरा जन्म... = सर्वर्गपराः + जन्म... – विसर्गसन्धिः (लोपः)

समासः

  1. कामात्मनः = कामः एव आत्मा येषां, ते – बहुव्रीहिः ।
  2. स्वर्गपराः = स्वर्गः एव परः येषां, ते – बहुव्रीहिः ।
  3. जन्मकर्मफलप्रदाम् = कर्मणः फलम् कर्मफलम् – षष्ठीतत्पुरुषः ।
  4. जन्म च कर्मफले च जन्मकर्मफले – द्वन्द्वः ।
  5. जन्मकर्मफलयोः प्रदा, ताम् – षष्ठीतत्पुरुषः ।

अर्थः

वेदवाक्यानां विमर्शकाः केचन पुरुषाः सन्ति । ते तु विषयेषु आसक्ताः, स्वर्गम् अपेक्षमाणाः, तदतिरिक्तं फलमेव नास्ति इति वदन्तश्च श्रुतेः तात्पर्यं न जानन्ति । अत एव ते नानाविधैः यागादिभिः या साध्यते, या च जननं कर्मफलानुभवश्चेति संसारचक्रे पातयति, तादृश्यां गृहवाहनादिविषयाणां प्राप्तौ निष्फलामपि सफलामिव भासमानां वाचं व्याहरन्ति ।

शाङ्करभाष्यम् [१]

ते च -

कामात्मानः  कामस्वभावाः कामपरा इत्यर्थः।  स्वर्गपराः  स्वर्गः परः पुरुषार्थः येषां ते स्वर्गपराः स्वर्गप्रधानाः।  जन्मकर्मफलप्रदां  कर्मणः फलं कर्मफलं जन्मैव कर्मफलं जन्मकर्मफलं तत् प्रददातीति जन्मकर्मफलप्रदा तां वाचम्। प्रवदन्ति इत्यनुषज्यते।  क्रियाविशेषबहुलां  क्रियाणां विशेषाः क्रियाविशेषाः ते बहुला यस्यां वाचि तां स्वर्गपशुपुत्राद्यर्थाः यया वाचा बाहुल्येन प्रकाश्यन्ते।  भोगैश्वर्यगतिं   प्रति  भोगश्च ऐश्वर्यं च भोगैश्वर्ये तयोर्गतिः प्राप्तिः भोगैश्वर्यगतिः तां प्रति साधनभूताः ये क्रियाविशेषाः तद्बहुलां तां वाचं प्रवदन्तः मूढाः संसारे परिवर्तन्ते इत्यभिप्रायः।।

भाष्यार्थः

ते अविवेकिनः च –

कामात्मा इत्युक्ते भोगकामनाः एव येषां स्वभावः, तादृशाः भोगपरायणाः । स्वर्गः एव येषां प्रधानं लक्ष्यम् अस्ति, अर्थाद् स्वर्गप्राप्तिः एव येभ्यः परमपुरुषार्थः अस्ति, ते स्वर्गपराः । एते भोगपरायणाः, स्वर्गपराः च पुरुषाः सर्वदा जन्मरूपिणः कर्मफलस्य दात्रीं वाणीम् एव वदन्ति । कर्मणः फलम् इत्युक्ते 'कर्मफलम्' । जन्मरूपं कर्मफलम् इति 'जन्मकर्मफलम्' उच्यते । तस्य जन्मकर्मफलस्य दात्री 'जन्मकर्मफलप्रदा' इति उच्यते । अर्थाद् ते भोगपरायणाः, स्वर्गपराः पुरुषाः सर्वदा जन्मकर्मफलप्रदां वाणीम् एव वदन्ति इत्यर्थः । भोगैश्वर्यप्राप्त्यै याः क्रियाः सन्ति, तासाम् अनेके क्रियाभेदाः सन्ति । तेषां क्रियाभेदानां वर्णनं यस्यां वाण्याम् अधिकं भवेत्, अर्थाद् स्वर्ग-पशु-पुत्रादीनाम् अनेकपदार्थानां यया वाण्या आधिक्येन उपस्थापनं भवेत्, तादृशीं क्रियाभेदान् उपस्थापिकां वाणीम् उच्यमानाः ते मूढाः पौनःपुन्येन संसारसचक्रे भ्रमन्ति इति अभिप्रायः ।

रामानुजभाष्यम् [२]

अथ काम्यकर्माधिकृतान् निन्दति -

याम् इमां पुष्पितां  पुष्पमात्रफलाम् आपातरमणीयां  वाचम् अविपश्चितः  अल्पज्ञा भोगैश्वर्यगतिं प्रति वर्तमानां प्रवदन्ति वेदवादरताः  वेदेषु ये स्वर्गादिफलवादाः तेषु सक्ताः  न अन्यद् अस्ति इति   वादिनः  तत्सङ्गातिरेकेण स्वर्गा देः अधिकं फलं न अन्यद् अस्ति इति वदन्तः।  कामात्मानः  कामप्रवणमनसः  स्वर्गपराः  स्वर्गपरायणाः स्वर्गादिफलावसाने पुन र्जन्मकर्मा ख्य फलप्रदां क्रियाविशेषबहुलां  तत्त्वज्ञानरहिततया क्रियाविशेषप्रचुरां तेषां  भोगैश्वर्यगतिं प्रति  वर्तमानां याम् इमां वाचं ये प्रवदन्ति इति सम्बन्धः।

भाष्यार्थः

अधुना काम्यकर्मणाम् अधिकारिणां निन्दां करोति –

वेदवादरताः वेदेषु यानि स्वार्गादिफलद्योतकानि वाक्यानि उक्तानि, तेषु आसक्तानाम् अज्ञानिनां तेषु फलेषु आसक्तिः भवतीति । तस्याः आसक्तेः आधिक्यम् एतावद् अस्ति यत्, स्वार्गात् महत्तरम् अन्यत् किमपि नास्ति इति ते विचिन्तयन्ति । कामात्मा भोगासक्तचित्ताः स्वर्गपरायणाः पुरुषाः स्वर्गादिफलानाम् उपभोगोत्तरं पुनः जन्म एवं कर्मरूपं फलं दात्रीं, भोगैश्वर्यस्य प्रतिपादनकर्त्रीं वाणीं वदन्ति । ते पुरुषाश्च अनेकप्रकारकाणां क्रियाणां भेदयुक्ताम् अर्थात् तत्त्वज्ञानरहितत्वाद्, यस्यां क्रियाभोगानां प्राचुर्यम् अस्ति, तादृशीं पुष्पिताम् आपातरमणीयां वाणीं वदन्ति । एवम् अग्रिमेण 'याम् इमां वाचं प्रवदन्ति' इत्यनेन श्लोकेन सह एतस्य श्लोकस्य सम्बन्धः अस्ति ।

फलकम्:गीताश्लोकक्रमः

फलकम्:साङ्ख्ययोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

  1. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
  2. रामानुजभाष्यम्