कथं भीष्ममहं सङ्ख्ये...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement कथं भीष्ममहं सङ्ख्ये (फलकम्:IPA audio link) इत्यनेन श्लोकेन अर्जुनः स्वयं किमर्थं युद्धं कर्तुं नेच्छति इति वदति । पूर्वस्मिन् अध्याये अर्जुनः अनेकाभिः युक्तिभिः स्वस्य युद्धोपरामस्य कारणानि अवदत् । परन्तु पूर्वस्मिन् श्लोके कापुरुषतायाः आरोपणं कृत्वा श्रीकृष्णः अर्जुनस्य सर्वाणि कारणानि अयोग्यानि इति उक्तवान् । ततः श्रीकृष्णः मम कथनं नावगच्छन् अस्ति इति मत्वा अर्जुनः अधिकान् तर्कान् वदति । सः वदति यत्, हे मधुसूदन ! अहं रणभूमौ भीष्मेण, द्रोणेन च सह कथं युद्ध्यामि ? यतः हे अरिसूदन ! तौ उभौ पूजनीयौ इति ।

श्लोकः

गीतोपदेशः

अर्जुन उवाच-

कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन ।
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥ ४ ॥

पदच्छेदः

कथम्, भीष्मम्, अहम्, सङ्ख्ये, द्रोणम्, च, मधुसूदन । इषुभिः, प्रतियोत्स्यामि, पूजार्हौ, अरिसूदन ॥

अन्वयः

मधुसूदन ! अहं सङ्ख्ये कथम् इषुभिः पूजार्हौ भीष्मं द्रोणं च प्रतियोत्स्यामि ? अरिसूदन !

शब्दार्थः

अन्वयः विवरणम् सरलसंस्कृतम्
मधुसूदन अ.पुं.स्मबो.एक. हे कृष्ण !
अहम् अस्मद्-द.सर्व.प्र.एक. अहम्
सङ्ख्ये अ.नपुं.स.एक. युद्धे
कथम् अव्ययम् केन प्रकारेण
पूजार्हौ अ.पुं.द्वि.एक. सम्मान्यौ
भीष्मं अ.पुं.द्वि.एक. भीष्मं
द्रोणं अ.पुं.द्वि.एक. द्रोणं
अव्ययम्
इषुभिः उ.पु.द्वि.बहु. बाणैः
प्रतियोत्स्यामि प्रति+√युध प्रहारे-पर.कर्तरि, लट्.उपु.एर. सम्प्रहरिष्यामि
अरिसूदन अ.पुं.स्मबो.एक. हे शत्रुभञ्जन !

व्याकरणम्

सन्धिः

  1. पूजार्हावरिसूदन = पूजार्हौ + अरिसूदन यान्तवान्तादेशसन्धिः

समासः

  1. पूजार्हौ = पूजाम् अर्हौ – द्वितीयातत्पुरुषः ।

कृदन्तः

  1. अर्हः = अर्ह् + अच् (कर्तरि)

अर्थः

हे मधुसूदन ! पितामहः भीष्‍मः आचार्यः द्रोणश्च मम अत्यन्तं पूजार्हौ । अहं युद्धे कथं तौ प्रति बाणप्रयोगं करवाणि ?

भावार्थः [१]

'मधुसूदन', 'अरिसूदन' – एते उभे पदे सम्बोधनत्वेन उपयुक्ते । तस्य कारणम् अस्ति यत्, भवान् दैत्यानां, शत्रूणां च संहारकः अस्ति । अर्थात् ये दुष्टस्वभावाः, अधर्मिणः, सर्वेभ्यः कष्टदातारः भवन्ति, तान् अपि भवान् अमारयत् । ते सर्वे विद्वेषिणः अनिष्टकारिणः आसन्, परन्तु अत्र मे सम्मुखं भीष्मद्रोणसदृशाः श्रेष्ठाः सन्ति । तान् अहं कथं मारयानि ? इति।

'कथं भीष्ममहं सङ्ख्ये द्रोणं च' – अहं कापुरुतायाः कारणेन युद्धात् उपरतः न भवामि, प्रत्युत धर्म दृष्ट्वा युद्धात् विमुखो भवामि । परन्तु भवतः कथनम् अस्ति यत्, मयि युद्धकाले कापुरुषता, नुपंसकाता च कुतः सम्प्राप्ता ? इति । भवान् एव चिन्तयतु यत्, पितामहेन भीष्मेण, आचार्येण द्रोणेन च सह अहं युद्धं कथं करवाणि ? अत्र मे कापुरुषता नास्ति । कापुरुषतायाः स्थितिः तदा भवति, यदाहं मृत्योः भीतः भवामि, प्रत्युताहं मारयितुं बिभेमि । जगति द्वौ सम्बन्धौ एव मुख्यौ मन्येते । जन्मसम्बन्धः, विद्यासम्बन्धश्च । बाल्यकालाद् अहं पितामहस्य अङ्के (क्रोडे) विकसितः । बाल्यावस्थायां यदाहं तं "पितः ! पितः !" इति सम्बोधयामि स्म, तदा सः कथयति स्म यत्, अहं तु ते पितुः अपि पितुः अस्मि इति । एवं सः मयि अतीव स्निहयति स्म । विद्यासम्बन्धत्वात् आचार्यद्रोणः मे पूजनीयः । स मे विद्यागुरुः स्वस्मै पुत्राय अपि मत्सदृशं ज्ञानं नायच्छत् । स ब्रह्मास्त्रोपयोगविद्याम् उभौ अपि पाठितवान्, परन्तु ब्रह्मास्त्रस्य प्रतिक्षेपणविद्यां स मामेव पाठितवान् । तस्य वरदानम् अस्ति यत्, "मदुत्तमः अस्त्रशस्त्रकलासम्पन्नः तस्य शिष्येषु न कोऽपि भविष्यति" इति । तौ प्रति 'रे' इत्यादीनि वचनानि अपि तयोः हत्यासदृशानि सन्ति । तर्हि तौ हन्तुं शरचालनं तु कियत् महात्पातकं भविष्यति ?

'इक्षुभिः प्रति योत्स्यामि पूजार्हौ' – भीष्मद्रोणौ मे पूजनीयौ । तयोः मयि पूर्णाधिकारः; यतः तौ तु मयि घातं कर्तुं प्रभवन्ति, परन्त्वहं तयोः प्रहारं कथं करवाणि ?


फलकम्:गीताश्लोकक्रमः

फलकम्:साङ्ख्ययोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
"https://sa.bharatpedia.org/index.php?title=कथं_भीष्ममहं_सङ्ख्ये...&oldid=9416" इत्यस्माद् प्रतिप्राप्तम्