ओट्टो हेन्रिक् वार्बर्ग्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox scientist

Otto Heinrich Warburg (cropped).jpg
बर्लिन्-नगरे विद्यमानः ओट्टो हेन्रिक् वार्बर्गस्य स्मारकम्

(कालः – ०८. १०. १८८३ तः)

एषः ओट्टो हेन्रिक् वार्बर्ग् (Otto Heinrich Warburg) श्वासोच्छ्वासस्य विषयस्य संशोधकः । अयम् ओट्टो हेन्रिक् वार्बर्ग् १८८३ तमे वर्षे अक्टोबर् मासस्य ८ दिनाङ्के जन्म प्राप्नोत् । १९०६ वर्षे पालिप्टैड् विषये संशोधनं कृत्वा "डाक्टरेट्” प्राप्तवान् । तदनन्तरं जीवविज्ञानम् अधीत्य १९११ वर्षे वैद्यपदवीं प्राप्नोत् । सः अङ्गांशेषु यः श्वासोच्छ्वासः जायते तद्विषये आसक्तः आसीत् । प्रायः सार्धैकशतकतः पूर्वम् एव लेवासिये श्वासोच्छ्वासस्य वायौ विद्यमानस्य आम्लजनकस्य च सम्बन्धः अस्ति । अनन्तरं जीवकोशान् प्रति आम्लजनकं प्रापयति रक्ते विद्यमानं हिमोग्लोबिन् इति संशोधितवान् आसीत् । किन्तु आम्लजनकस्य प्रयोजनं किम् इति विवरणं न ज्ञातम् आसीत् ।


एषः ओट्टो हेन्रिक् वार्बर्ग् १९२३ तमे वर्षे "मानोमीटर्” नामकम् उपकरणं निर्मितवान् । तस्य उपकरणस्य साहाय्येन जीवताम् अङ्गांशानां श्वासोच्छ्वासं परीक्षितवान् । आम्लजनक्स्य तथा इङ्गालस्य डै आक्सैडस्य च विनिमयम् अपि विवृतवान् । १९२५ तमे वर्षे प्रयोगान् कृत्वा रक्तस्य हिमोग्लोबिन् मध्ये विद्यमानः अयसः अंशः "हेमि”-समूहः एव आम्लजनकं जीवकोशान् प्रति प्रापयति इति ज्ञापितवान् । श्वासोच्छ्वासस्य विषये कृतस्य अस्य संशोधनस्य निमित्तम् अयम् ओट्टो हेन्रिक् वार्बर्ग् "नोबेल्” पुरस्कारम् अपि प्राप्तवान् । १९३० तमे वर्षे एषः ओट्टो हेन्रिक् वार्बर्ग् "डिहैड्रोजिनेषन्” प्रतिक्रियाणां विषये संशोधनम् आरब्धवान् । विटमिन् सदृशान् 'प्लावो एन्जैम्’ इत्येकं संयुक्तं वस्तु पृथक् कृतवान् । अनन्तरं विटमिन् इत्याख्यानां रचनां कार्यं च विवृतवान् । अनन्तरं श्वासोच्छ्वासस्य विषये ये प्रयोगः कृताः आसन् तान् "क्यान्सर्”-रोगस्य दिशि परिवर्तितवान् । क्यान्सर्-रोगस्य कारणं तु सूक्ष्माणुजीविनः एव इति राबर्ट् कोह् तथा [लूयीस् पाश्चर्|[लूयिस् पाश्चरस्य]] संशोधनैः सिद्धम् आसीत् । विटमिन् तथा हार्मोन् इत्याख्यानाम् अभावेन शरीरस्य चयापचयकार्यस्य हानिः भवति । क्यान्सर् अपि तादृशः कश्चन अभावस्य रोगः इति तदा जनानां चिन्तनम् आसीत् । एषः ओट्टो हेन्रिक् वार्बर्ग् सामान्यस्य मनुष्यस्य अङ्गांशाः कियता प्रमाणेन आम्लजनकं स्वीकुर्वन्ति, क्यान्सर्-रोगेण पीडितस्य मनुष्यस्य अङ्गांशाः च कियता प्रमाणेन आम्लजनकं स्वीकुर्वन्ति इति परीक्षां कृतवान् । तेन क्यान्सर्-रोगेण पीडितानां मनुष्याणाम् अङ्गांशाः न्यूनप्रमाणेन आम्लजनकं स्वीकुर्वन्ति इति ज्ञातम् । तदर्थं ते आम्लजनकरहितां क्रियाम् (ग्लैकोलेज्) अनुसरन्ति इत्यपि संशोधितवान् । किन्तु अस्य ओट्टो हेन्रिक् वार्बर्गस्य प्रयोगाः क्यान्सर्-रोगस्य कारणस्य संशोधनदिशि न अनुवर्तिताः एव । तथापि तस्य संशोधनानि अग्रिमविज्ञानिनां मार्गदर्शकाणि अभवन् ।

बाह्यसम्पर्कतन्तुः