एस् बङ्गारप्प

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox Indian politician

जननम्

दि.बङ्गारप्पः कर्णाटकेन दृष्टः वर्णरञ्जितः राजकीयपुरुषः, पूर्वतनमुख्यमन्त्री च । अनेकपक्षाणां सृष्टिकर्ता । सः सदाशिवनगरस्य स्वकीयवासगृहे निवसति स्म । अन्तिमश्वसपर्यन्तं राजकीये सक्रियः आसीत् । १९३३ तमे वर्षे अक्टोबरमासे २६ दिनाङ्के शिवमोग्ग जिल्हायाः सोरबतालूकस्य कुबटूरू ग्रामे जन्म प्राप्तवान् । पिता कल्लपः माता कल्लम्मा । बङगारप्पः BA, LLB पदवीधरः आसीत् । समाजविज्ञाने डिप्लोमा कृतवान् । समाजवादिनायकस्य शान्तवीरगोपालगौडस्य शिष्यः । १९६२तमे वर्षे राजकीये पादार्पणं कृतवान् । सागरसोरबसंयुक्तविधानसभाक्षेत्रतः निर्वाचने चितः अभवत् । वृत्त्या न्यायवादी आसीत् ।

मरणम्

बङ्गारप्पः कानिचन दिनानि अस्वस्थः आसीत् । अनारोग्यपीडितः बेङगलूरनगरस्य मल् याचिकित्सालये डिसेम्बर ८ दिनाङ्के प्रविष्टः आसीत् । चिकित्सा फलदायिका न अभवत् । २०११, डिसेम्बर २५ रविवासरे रात्रौ १२.४५ समये दिवङगतः । बङगारप्पः पत्नीं शकुन्तलां द्वौ पुत्रौ ( कुमारबङ्गारप्पं, मधुबङ्गारप्पं च ) तिस्त्रः पुत्रीः ( सुजातां गीतां अनितां च ) अपारबन्धून् अभिमानिनः च त्यक्त्वा निर्गतः ।

अन्तिमसंस्कारः

२०११, डिसेम्बर २७ मङ्गलवासरे अन्तिमसंस्कारः जातः । तस्य विवरणम् एवम् अस्ति । श्री बङ्गारप्पस्य कलेवरं बेङगलूरुतः कुबटूरुं प्रातः ४.३० आनीतवन्तः । ततः ४ कि.मी. दूरे लक्कवल्लीग्रामस्य तस्य क्षेत्रे पित्रोः समाधेः पुरतः पूजां कृत्वा पुनः कुबटूरुं शोभायात्रासहितं नीतवन्तः । एषा शोभायात्रा आनवट्टिं, समनहल्लिं, कुप्पगड्डे, नवनन्दिं, कोरगोडुं, गुडविकानं, प्राचीनसोरबं च व्यतीत्य सागरं प्रति मध्याह्ने ३.०० वादने प्राप्ता । सोरबस्य पदवीपूर्वविद्यालयस्य क्रीडाङ्गणे बङ्गारप्पस्य शवम् अन्तिमदर्शनार्थं स्थापितम् तदनन्तरं राज्यपोलीस् समूहद्वारा राष्ट्रगीतं पठितम् । सकलगौरवपूर्वकं त्रिवारं भुशुण्डिकास्त्रप्रयोगपूर्वकं च विधिः, अग्निस्पर्शश्च । तं च सायं ७.१५ समये बङ्गारप्पस्य कनीयः पुत्रः मधुबङ्गारप्पः कृतवान् । प्रचण्डजनस्तोमेन शोकः अभिव्यञ्जितः ।

तत्र सम्मिलितेषु प्रमुखाः मुख्यमन्त्री सदानन्द गौडः, विरोधपक्षस्य नायकः सिद्धरामय्यः, राज्यस्य बि.जे,पि घटकाध्यक्षः के.एस्. इश्वरप्पः, बङ्गारप्पस्य पत्नीपुत्राः अपारहितैषिणः च अन्तिमं गौरवं समर्पितवन्तः । बङ्गारप्पस्य गौरवसूचनार्थं सर्वेषां सर्वकारीयकार्यालयानाम् उपरि राष्ट्रध्वजम् अर्धभागे आरोपितवन्तः ।

बाह्यसम्पर्कतन्तुः

फलकम्:S-start फलकम्:S-off फलकम्:S-bef फलकम्:S-ttl फलकम्:S-aft फलकम्:S-end

फलकम्:कर्णाटकस्य मुख्यमन्त्रिणः

"https://sa.bharatpedia.org/index.php?title=एस्_बङ्गारप्प&oldid=9274" इत्यस्माद् प्रतिप्राप्तम्