एवमुक्त्वा ततो राजन्...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः

सञ्जय उवाच -

एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः ।
दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ ९ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य नवमः(९) श्लोकः ।

पदच्छेदः

एवम् उक्त्वा ततः राजन् महायोगेश्वरः हरिः दर्शयामास पार्थाय परमं रूपम् ऐश्वरम् ॥ ९ ॥

अन्वयः

राजन् ! महायोगेश्वरः हरिः एवम् उक्त्वा ततः परमम् ऐश्वरं रूपं पार्थाय दर्शयामास ।

शब्दार्थः

राजन् = धृतराष्ट्र !
महायोगेश्वरः = महान् योगेश्वरः
हरिः = कृष्णः
एवम् = इत्थम्
उक्त्वा = कथयित्वा
ततः = पश्चात्
परमम् = उत्कृष्टम्
ऐश्वरम् = ईश्वरसम्बन्धिनम्
रूपम् = आकारम्
पार्थाय = अर्जुनाय
दर्शयामास = प्रदर्शितवान् ।

अर्थः

धृतराष्ट्र ! महान् योगेश्वरः कृष्णः इत्थम् उक्त्वा पश्चात् स्वीयम् उत्कृष्टम् ईश्वरसम्बन्धिनम् आकारं पार्थाय प्रदर्शितवान् ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=एवमुक्त्वा_ततो_राजन्...&oldid=2136" इत्यस्माद् प्रतिप्राप्तम्