एवं ज्ञात्वा कृतं कर्म...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः ।
कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥ १५ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य पञ्चदशः(१५) श्लोकः ।

पदच्छेदः

एवं ज्ञात्वा कृतं कर्म पूर्वैः अपि मुमुक्षुभिः कुरु कर्म एव तस्मात् त्वं पूर्वैः पूर्वतरं कृतम् ॥ १५ ॥

अन्वयः

एवं ज्ञात्वा पूर्वैः मुमुक्षुभिः अपि कर्म कृतम् । तस्मात् पूर्वैः कृतं पूर्वतरं कर्म एव कुरु ।

शब्दार्थः

एवम् = इत्थम्
ज्ञात्वा = विज्ञाय
पूर्वैः = प्राचीनैः
मुमुक्षुभिः अपि = मोक्षार्थिभिः अपि
कर्म कृतम् = कर्म आचरितम्
तस्मात् = ततः
पूर्वैः = प्राचीनैः
कृतम् = आचरितम्
कर्म एव = क्रियाम् एव
पूर्वतरम् = अतिशयेन पूर्वाम्
कुरु = आचर ।

अर्थः

कर्मफलेच्छारहितं पुरुषं कर्माणि न लिम्पन्ति । इत्थं ज्ञात्वा प्राचीनकाले मुमुक्षुभिः पुरुषैः कर्म आचरितम् । अतः भवान् अपि प्राचीनैः यथा कर्म कृतं तथा कर्म आचरेत् ।

शाङ्करभाष्यम्

नाहं कर्ता न मे कर्मफले स्पृहेति-एवमिति। एवं ज्ञात्वा कृतं कर्म पूर्वैरप्यतिक्रान्तैर्मुमुक्षुभिः, कुरु तेन कर्मैव त्वं न तूष्णीमासनं नापि संन्यासः कर्तव्यस्तस्मात्त्वं

फलकम्:गीताश्लोकक्रमः

फलकम्:ज्ञानकर्मसंन्यासयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु