एतान्न हन्तुमिच्छामि...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

फलकम्:Underlinked

गीतोपदेशः
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ।
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥ ३५ ॥

अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य पञ्चत्रिंशत्तमः(३५) श्लोकः ।


पदच्छेदः

एतान्, न, हन्तुम्, इच्छामि, घ्नतः, अपि, मधुसूदन । अपि, त्रैलोक्यराज्यस्य, हेतोः, किम्,नु, महीकृते ॥

अन्वयः

मधुसूदन ! त्रैलोक्यराज्यस्य हेतोः घ्नतः अपि एतान् हन्तुं न इच्छामि । किं नु महीकृते ?

शब्दार्थः

मधुसूदन = हे कृष्ण !
त्रैलोक्यराज्यस्य = त्रिलोकाधिपत्यस्य
हेतोः अपि = हेतोः अपि
घ्नतः अपि = हन्तॄन् अपि
एतान् = इमान्
हन्तुम् = नाशयितुम्
न इच्छामि = नहि वाञ्छामि
किं नु = किं पुनः,
महीकृते = भूमिप्राप्तये ।

अर्थः

हे कृष्ण ! यदि ते मां मारयन्ति मारयन्तु कामम् । तैः मार्यमाणोऽपि नाहं तान् मारयितुम् इच्छामि । ननु भोः ! त्रैलोक्यराज्यं तव सिद्ध्यति - तथापि नाहं मारयितुम् इच्छामि । एवं स्थिते केवलायाःअस्याः भूमेः प्राप्तये किमहं मारयामि ?

बाह्यसम्पर्कतन्तुः

http://www.gitasupersite.iitk.ac.in/

फलकम्:अर्जुनविषादयोगः

सम्बद्धाः लेखाः