उत्तमः पुरुषस्त्वन्यः...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ १७ ॥

अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य सप्तदशः(१७) श्लोकः ।

पदच्छेदः

उत्तमः पुरुषः तु अन्यः परमात्मा इति उदाहृतः यः लोकत्रयम् आविश्य बिभर्ति अव्ययः ईश्वरः ॥

अन्वयः

उत्तमः पुरुषः तु अन्यः परमात्मा इति उदाहृतः अव्ययः यः लोकत्रयम् आविश्य बिभर्ति ।

शब्दार्थः

परमात्मा = परब्रह्म
उदाहृतः = कथितः
ईश्वरः = प्रभुः
लोकत्रयम् = भुवनत्रयम्
आविश्य = प्रविश्य
बिभर्ति = धारयति ।

अर्थः

आभ्याम् उभाभ्यामपि भिन्नः अन्यः कश्चित् पुरुषो वर्तते । सः उत्तमः पुरुषः । स एव परमात्मा यः त्रीन् अपि लोकान् व्याप्य तान् बिभर्ति । एवं कार्यभूतः पदार्थः महदादिः क्षरः, कारणीभूता प्रकृतिः अक्षरः । ताभ्यां व्यतिरिक्तः उत्तमः पदार्थः परमात्मेति भागत्रयम् ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः