इवान् पेत्रोविच् पाव्लोव्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox scientist

Ivan Pavlov LIFE.jpg
पाव्लोव्-सङ्ग्रहालये संरक्षितः पाव्लोवेन प्रयोगार्थम् उपयुक्तः शुनकः

(कालः – १४. ०९. १८४९ तः २७. ०२ .१९३६)

अयम् इवान् पेत्रोविच् पाव्लोव् (Ivan Petrovich Pavalov) सोपाधिकप्रतिवर्तनस्य संशोधकः । अयम् एव रष्यादेशे "नोबेल्” पुरस्कारं प्राप्तवान् प्रथमः विज्ञानी । अयं १८४९ तमे वर्षे सेप्टेम्बरमासस्य १४ दिनाङ्के रष्यादेशस्य रैजान् इति प्रदेशे जन्म प्राप्नोत् । अस्य पिता क्रैस्तधर्मगुरुः आसीत् । एषः इवान् पेत्रोविच् पाव्लोव् १८७५ तमे वर्षे विज्ञानस्य विषये डिप्लोमापदवीं प्राप्नोत् । चार्ल्स् डार्विनस्य "जीवजातेः उदयः” इति पुस्तकात् प्रभावितः इवान् पेत्रोविच् पाव्लोव् स्वयम् अपि विज्ञानिना भवितव्यम् इति निर्णियम् अकरोत् । एषः इवान् पेत्रोविच् पाव्लोव् १८७९ तमे वर्षे वैद्यशिक्षणं समाप्य शरीरविज्ञानस्य प्रयोगशालायां संशोधनकार्यस्य अनुवर्तनम् अकरोत् । १८८४ तमात् वर्षात् वर्षद्वयं यावत् जर्मन्-देशे अध्ययनम् अकरोत् । अध्ययनं समाप्य ततः रष्यादेशं प्रति प्रतिनिवृत्तः इवान् पेत्रोविच् पाव्लोव् सैण्ट् पिटर्स् बर्ग् नगरे शरीरविज्ञानस्य विभागे प्राध्यापकपदं प्राप्नोत् । सः इवान् पेत्रोविच् पाव्लोव् यदा विद्यार्थी आसीत् तदा एव कस्यचित् शशस्य मेदोजीरकग्रन्थेः नाडीं संशोध्य, तां नाडीं कर्तयित्वा, तदनन्तरं जातानां परिणामानां विषये प्रबन्धं लिखित्वा स्वर्णपदकं प्राप्तवान् आसीत् । अनन्तरं हृदयस्य कार्यनिर्वहणे नाडीजालस्य प्रभावं विशदीकृत्य प्रौढं प्रबन्धं लिखित्वा १८३३ तमे वर्षे वैद्यपदवीं प्राप्नोत् इवान् पेत्रोविच् पाव्लोव् ।

मानवस्य अङ्गक्रियासु मानसिकानां प्रतिवर्तनानां विषये इवान् पेत्रोविच् पाव्लोव् विशिष्टान् प्रयोगान् अकरोत् । तदर्थं शुनकम् उपयुज्य तेन कृताः निश्चित-प्रतिवर्तनस्य प्रयोगाः प्रसिद्धाः जाताः । सः प्रतिदिनं शुनकस्य कृते आहारदानसमये प्रथमं घण्टानादं कृत्वा अनन्तरम् आहारं ददाति स्म । आहारसेवनस्य समये तस्य शुनकस्य मुखात् लाला स्रवति स्म । आहारं पश्यति चेत् अपि लाला स्रवति स्म । कालान्तरे घण्टानादस्य श्रवणस्य अनन्तरम् आहारः नास्ति चेत् अपि शुनकस्य मुखात् लाला स्रवति स्म । एवं प्रतिवर्तनस्य नियन्त्रणं शक्यते इति इवान् पेत्रोविच् पाव्लोव् अदर्शयत् । घण्टानादस्य श्रवणेन एव लाला स्रवति इत्येतां क्रियां सः निश्चितं प्रतिवर्तनम् (कण्डीषन्ड् रिफ्लेक्स्) इति अवदत् । शुनकः घण्टानादस्य आहारस्य सम्बन्धं ज्ञातवान् । तदनुगुणं जठररसस्य उत्पादनक्रियायां मनसः (नाडीसमूहस्य) प्रभावोऽपि अस्ति इति अंशः अनेन प्रयोगेण सिद्धः अभवत् । अयम् इवान् पेत्रोविच् पाव्लोव् नाडीसमूहस्य पचनक्रियायाः सम्बन्धं दर्शयित्वा अस्माकं शरीरस्य सर्वाः अपि क्रियाः नाडीसमूहेन एव नियन्त्र्यन्ते इति वादं प्रस्तुतवान् । पचनक्रियायाः सम्बद्धस्य अस्य इवान् पेत्रोविच् पाव्लोवस्य प्रबन्धस्य कृते १९०४ वर्षे "नोबेल्” पुरस्कारः प्राप्तः । रष्यादेशे अपि बहूनि उपायनानि प्राप्तानि । तथैव लण्डन्-नगरस्य रायल् सोसैटि–सदस्यत्वम् अपि प्राप्तम् । एतत् सोपाधिकप्रतिवर्तनम् एव प्राणिनां मनोविज्ञानस्य संशोधनस्य आधारः अभवत् । रष्यादेशस्य सर्वकारः तस्य इवान् पेत्रोविच् पाव्लोवस्य प्रयोगशालायाः विस्तरणार्थम्, अपेक्षितानाम् आनुकूल्यानां कल्पनार्थं च धनसाहाय्यम् अकरोत् । तावत्पर्यन्तं प्राणिनां विषये प्रयोगान् कृतवान् इवान् पेत्रोविच् पाव्लोव् मानवानां विषये संशोधनम् आरब्धवान् । सः तदर्थं मस्तिष्करोगेण पीडितान्, बुद्धिहीनान् च चितवान् । रष्यादेशस्य सर्वकारः लेनिन्-ग्राड्-नगरस्य समीपे अस्य इवान् पेत्रोविच् पाव्लोवस्य नाम्ना विज्ञाननगरस्य एकस्य आरम्भम् अकरोत् । स्वस्य जीवनस्य अन्तिमेषु दिनेषु इवान् पेत्रोविच् पाव्लोव् तत्र स्थित्वा मानवानां नाडीव्याधिविषये प्रयोगान् अकरोत् । रक्तपरिचलनस्य विषये अपि अभ्यस्तवान् ।

अनेन इवान् पेत्रोविच् पाव्लोवेन शुनकस्य विषये कृताः प्रगोगाः बालानां शिक्षणस्य निरूपणे अपि साहाय्यम् अकुर्वन् । माता वा पिता वा तडित्तः, शुनकात्, आरक्षकात् वा भीतः भवति चेत् बालाः अपि तेभ्यः बिभ्यति । मातापितरौ धैर्यवन्तौ चेत् बालाः अपि धैर्यवन्तः भवन्ति । तथैव बालाः अपि ज्येष्ठेषु प्रभावं जनयन्ति । रोदनम्, आक्रोशनं वा क्रियते चेत् यदिष्यते तत् प्राप्यते इति ज्ञानेन बालाः हठम् अधिकं कुर्वन्ति । इत्येतादृशानां बालानां ज्येष्ठानां वा व्यवहारस्य निरूपणाय मार्गम् अकल्पयन् इवान् पेत्रोविच् पाव्लोवस्य प्रयोगाः । अस्य इवान् पेत्रोविच् पाव्लोवस्य प्रायोगाः यशस्वितां प्राप्तुम् एकदशककालः अपेक्षितः अभवत् । तथापि सः कार्यरतः एव सन् साधितवान् । सः इवान् पेत्रोविच् पाव्लोव् कार्यकरणावसरे एव ८७ तमे वयसि १९३६ तमे वर्षे फेब्रवरीमासस्य २७ तमे दिनाङ्के इहलोकम् अत्यजत् ।

बाह्यसम्पर्कतन्तुः