इन्द्रियाणि मनो बुद्धिः...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

(फलकम्:IPA audio link)

गीतोपदेशः
इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते ।
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥ ४० ॥

अयं भगवद्गीतायाः तृतीयोध्यायस्य कर्मयोगस्य चत्वारिंशत्तमः (४०) श्लोकः ।

पदच्छेदः

इन्द्रियाणि मनः बुद्धिःअस्य अधिष्ठानमुच्यते एतैः विमोहयति एषः ज्ञानम् आवृत्य देहिनम् ॥ ४० ॥

अन्वयः

इन्द्रियाणि, मनः, बुद्धिश्च अस्य अधिष्ठानम् उच्यते । एषः (कामः) एतैः ज्ञानम् आवृत्य देहिनं विमोहयति ।

शब्दार्थः

अन्वयः सरलसंस्कृतम्
इन्द्रियाणि नेत्रादीनि
मनः चित्तम्
बुद्धिश्च धीः च
अस्य एतस्य कामस्य
अधिष्ठानम् आश्रयः
उच्यते कथ्यते
एषः एषः कामः
एतैः एभिः
ज्ञानम् ज्ञानम्
आवृत्य आच्छाद्य
देहिनम् शरीरिणम्
विमोहयति विविधं मोहयति ।

व्याकरणम्

सन्धिः

  1. मनो बुद्धिः = मनः + बुद्धिः – जश्त्वसन्धिः
  2. बुद्धिरस्य = बुद्धिः + अस्य – विसर्गसन्धिः (रेफः)
  3. विमोहयत्येषः = विमोहयति + एषः – यण्सन्धिः
  4. एतैर्विमोहयति = एतै + विमोहयति – विसर्गसन्धिः (रेफः)

कृदन्तः

  1. अधिष्ठानम् = अधि + स्था + ल्युट् (अधिकरणे)
  2. आवृत्य = आङ् + वृतु + ल्यप्

अर्थः

पञ्चेन्द्रियाणि, मनः, बुद्धिः च कामस्य आश्रयाः सन्ति । एषः कामः एभिः पञ्चभिः इन्द्रियैः ज्ञानम् आच्छाद्य शरीरिणं विमोहयति ।

शाङ्करभाष्यम्

किमधिष्ठानः पुनः कामो ज्ञनस्यावणत्वेन वैरी सर्वस्येत्यपेक्षायामाह, ज्ञाते हि शत्रोरधिष्ठाने सुख्न शत्रुनिबर्हणं कर्तुं शक्यत इति-इन्द्रियाणीति। इन्द्रियाणिमनो बुद्धिश्चास्य कामस्याधिष्ठानमाश्रय उच्यते, एतैरिन्द्रियादिभिराश्रयैर्विमोहयति विविधं मोहयत्येष कामो ज्ञानमावृत्याच्छद्य देहिनं शरीरिणम्।।40।।

फलकम्:गीताश्लोकक्रमः

फलकम्:कर्मयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु