इन्द्रियाणां हि चरतां...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement इन्द्रियाणां हि चरताम् (फलकम्:IPA audio link) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः वायोः, नावः च दृष्टान्तम् उक्त्वा इन्द्रियेन मनसः हरणस्य तर्कम् उपस्थापयति । पूर्वस्मिन् श्लोके अयुक्तस्य पुरुषस्य कृते सुखाभावम् उक्त्वा अत्र वायुवेगात् स्वच्छन्दताङ्गतायाः नावः उदाहरणेन अयुक्तस्य पुरुषस्य बुद्धिहरणप्रक्रियां वदति ।

श्लोकः

गीतोपदेशः
इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते ।
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥ ६७ ॥

पदच्छेदः

इन्द्रियाणाम्, हि, चरताम्, यत्, मनः, अनुविधीयते । तत्, अस्य, हरति, प्रज्ञाम्, वायुः, नावम्, इव, अम्भसि ॥

अन्वयः

चरतां हि इन्द्रियाणां यत् मनः अनुविधीयते, तत् अस्य प्रज्ञां वायुः अम्भसि नावम् इव हरति ।

शब्दार्थः

अन्वयः विवरणम् सरलसंस्कृतम्
चरताम् चरत्-त.नपुं.ष.बहु. विषयेषु प्रवर्तमानानाम्
इन्द्रियाणाम् अ.नपुं.ष.बहु. नेत्रादीनाम् (मध्ये)
मनः मनस्-स.नपुं.प्र.एक. बुद्धिः
यत् यद्-द,नपुं.सर्व.नपुं.प्र.एक. यद् इन्द्रियम्
अनुविधीयते अनु+वि+√धि धारणे-पर.कर्मणि, लट्.प्रपु.एक. अनुसृत्य प्रवर्तते
तत् तद्-द.सर्व.नपुं.प्र.एक. इन्द्रियम्
अस्य इदम्-म.सर्व.नपुं.ष.एक. एतस्य
प्रज्ञाम् आ.स्त्री.द्वि.एक. बुद्धिम्
वायुः उ.पुं.प्र.एक. पवनः
अम्भसि अम्भस्-स.नपुं.स.एक. उदके
नावम् नौ-औ.स्त्री.द्वि.एक. नौकाम्
इव अव्ययम् समानम् (इव)
हरति √हृञ् हरणे-पर.कर्तरि, लट्.प्रपु.एक. अपकर्षति ।

व्याकरणम्

सन्धिः

  1. यन्मनः = यत् + मनः - अनुनासिकसन्धिः
  2. मनोऽनुविधीयते = मनः + अनुविधीयते – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः, पूर्वरूपं च
  3. तदस्य = तत् + अस्य – जश्त्वसन्धिः
  4. वायुर्नावम् = वायुः + नावम् – विसर्गसन्धिः (रेफः)
  5. इवासम्भसि = इव + अम्भसि – सवर्णदीर्घसन्धिः

कृदन्तः

  1. चरताम् = चर् + शतृ (कर्तरि), तेषमाम्

अर्थः

जले प्लवमानां नौकां वायुः यत्र कुत्रापि नयति । एवं विषयेषु प्रवृत्तम् एकम् इन्द्रियमपि तस्य प्रज्ञां हरति ।

भावार्थः [१]

स्वविषयेषु विचरन्तिषु इन्द्रियेषु किञ्चित् एकं इन्द्रियम् अपि मनः स्वानुगामि करोति चेत्, जले यथा नौः वायुवेगेन ह्रियते, तथा तन्मनसा बुद्धिः ह्रियते । आत्मा परमात्मकृपया एव मनुष्यजन्म प्राप्नोति । अतः "मया तु केवलं परमात्मप्राप्तिः एव कर्तव्या" इति विचिन्त्य साधकेन स्वध्येयः दृढीकर्तव्यः । सुदृढे ध्येये सति अहङ्कारात् भोगानां महत्त्वं नश्यति । महत्त्वेन नष्टे साधकस्य बुद्धिः व्यवसायात्मिका भवति । परन्तु यावत् पर्यन्तं साधकस्य बुद्धिः व्यवसायात्मिका न भवति, तावता तस्य स्थितिः कीदृशी भवति ? इति यस्य वर्णनम् एतस्मिन् श्लोके करोति ।

'इन्द्रियाणां हि चरतां' – यदा साधकः कार्यक्षेत्रे सर्वप्रकारकान् व्यवहारान् करोति, तदा इन्द्रियाणां सम्मुखे अनुकूलाः विषयाः उपस्थिताः भवन्ति । इन्द्रियस्य तेषु विषयेषु कस्यचित् एकस्य विषये रागे सति इन्द्रियं मनः स्वानुगामि करोति । एवं मनः तस्मात् विषयात् सुखोपभोगम् आरभते । अर्थात् मनसि सुखबुद्धिः, भोगबुद्धिः च उत्पद्यते । विषयाणां पौनःपुन्येन उपभोगेन तेषां भोगानां महत्त्वम् उत्पद्यते । यथा भोजनकाले पदार्थानां रसास्वादे जिह्वा तेषु आसक्ता भवति, ततः आसक्तं रसेन्द्रियं मनः तान् विषयान् प्रति कर्षति, तथैव रसेन्द्रिये मग्नं मनः प्रसन्नताङ्गच्छति ।

'तदस्य हरति प्रज्ञाम्' – यदा मनसि विषयाणां महत्त्वं रागं जनयति, तदा केवलं मनः साधकस्य बुद्धिं हरति । अर्थात् साधके कर्तव्याकर्तव्ययोः विवेके नष्टे भोगबुद्धिः उत्पद्यते । सा भोगबुद्धिः "अहं परमात्मप्राप्तिम् इच्छामि" इति व्यवसायात्मिकां बुद्धिं नाशयति । व्यवसायात्मिकायाः बुद्धेः नाशे किञ्चित् समयः गच्छति, परन्तु साधकस्य बुद्धिः तु तत्क्षणमेव विचलिता भवति । अर्थात् यदा इन्द्रियेण मनः अनुगामि कृतं, तदा समनन्तरमेव भोगबुद्धिः उत्पद्यते, बुद्धिः विचलिता च भवति ।

'वायुर्नावमिवाम्भसि' – सा बुद्धिः कथं ह्रियते ? इत्यस्याः स्थितेः उपस्थापनं दृष्टान्तेन करोति । यत्, जले गन्तव्यं गच्छन्तीं नावं यथा वायुः अन्यत्र हरति, तथैव मनः बुद्धिं हरति इति । यथा कश्चन मनुष्यः नावि स्थित्वा नद्याः उत समुद्रस्य जलमार्गेण यदा स्वगन्तव्यं प्रति गच्छन् भवति, तदा वायोः तीव्रवेगेन नौः गन्तव्यलक्ष्यं प्रति अगत्वा वायुवेगानुगुणम् अन्यत्र एव गच्छति, तथैव साधकः व्यवसायात्मिकाबुद्धिरूपिण्यां नावि आरूढः सन् संसारसागरं तीर्त्वा यदा परमात्मानं प्रति गच्छन् भवति, तदा इन्द्रियं यत् मनः स्वानुगामि करोति, तत् मन एव बुद्धिं हरति । अर्थात् मनः तां बुद्धिं संसारं प्रति नयति । एवं साधकस्य विषयेषु सुखबुद्धिः उत्पद्यते । तस्याः सुखबुद्ध्याः साधकस्य पदार्थेषु महत्त्वबुद्धिः उत्पद्यते ।

वायुः नावं द्विधा विचालयति । नावं पथभ्रष्टां करोति,जले निमज्जयति च । परन्तु कश्चन चतुरः नाविकः वायोः वेगम् अपि अनुकूलं करोति, येन वायुः नावं स्वमार्गात् दूरीकर्तुं न शक्नोति । तस्मात् विपरीतं स एव वायोः वेगः नावं शीघ्रतया गन्तव्यस्थानं प्रति गन्तुं सहायकृत् सिद्ध्यति । तथैव इन्द्रियानुगामि मनः द्विधा बुद्धिं विचलति । परमात्मप्राप्तेः निश्चयं विस्मारयित्वा भोगबुद्धिं जनयति, निषिद्धभोगेषु सँल्लग्नं कारयित्वा पातयति च । परन्तु यस्य मनः, इन्द्रियाणि च वेशीभूतानि भवन्ति, तस्य बुद्धिं मनः विचालयितुं न शक्नोति । तस्मात् विपरीतं तन्मनः परमात्मानं प्रति गन्तुं सहाकारि सिद्ध्यति [२]

मर्मः

श्लोकस्यास्य पूर्वार्धे कर्मणिप्रयोगात् प्राक् कर्तरिप्रयोगः आसीत् । अर्थात् 'चरताम् इन्द्रियाणाम् इन्द्रियं यत् मनः अनुविदधाति' इति । वाक्येऽस्मिन् इन्द्रियं कर्तृ आसीत्, मनश्च कर्म । परन्तु यदा वाक्यं सरलीकर्तुं कर्मवाच्यस्य प्रयोगः कृतः, तदा कर्तुः कर्मभावः कृतः । तेन कर्मणा यानि कार्याणि क्रियन्ते, तानि सर्वाणि कार्याणि कर्त्रा भवन्ति । अत्र मनसः प्राधान्यं दर्शयितुम् इन्द्रियं विना मनः एव सर्वं करोति इति प्रदर्शितम् । तथा प्रदर्शयितुं कर्मरूपिणं मनः कर्तृत्वेन उपयुक्तम् । 'मनः' प्रथमपुरुषत्वेन उपयुक्ते सति 'अनुविधीयते' इत्यादयः क्रियाः मनोनुगणं भवन्ति । कर्तृवाच्ये यानि इन्द्रियाणि कर्तृत्वेन आसन्, तासां कर्तृभावे व्यपगते नवीनस्य वाक्यस्य रचना एवम् अभवत् यत्, 'इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते' इति । अत्र कर्मणः कर्तृत्वेन उपयोगस्य पृष्ठे तात्पर्यम् अस्ति यत्, इन्द्रियाणि येषु विषयेषु विचरन्ति, तेभ्यः विषयेभ्यः मनः युक्तं भवति । तान् विषयान् प्रति मनसि रागः उत्पद्यते । तादृशात् मनसः भोगबुद्धिः उत्पद्यते । एवं तन्मनः एकाकि एव बुद्धिं विषयभोगान् प्रति हरति कर्षति वा ।

शाङ्करभाष्यम् [३]

अयुक्तस्य कस्माद्बुद्धिर्नास्ति इत्युच्यते - इन्द्रियाणां हि  यस्मात्  चरतां  स्वस्वविषयेषु प्रवर्तमानानां  यत् मनः अनुविधीयते  अनुप्रवर्तते  तत्  इन्द्रियविषयविकल्पनेन प्रवृत्तं मनः  अस्य  यतेः  हरति प्रज्ञाम्  आत्मानात्मविवेकजां नाशयति। कथम्  वायुः नावमिव अम्भसि  उदके जिगमिषतां मार्गादुद्धृत्य उन्मार्गे यथा वायुः नावं प्रवर्तयति एवमात्मविषयां प्रज्ञां हृत्वा मनो विषयविषयां करोति ।।

भाष्यार्थः

अयुक्तस्य पुरुषस्य बुद्धिः किमर्थं न भवति ? इति कथयति –

यतः स्वविषयेषु चरच्,ु (विषयेषु प्रवृत्तेषु) इन्द्रियेषु मनः येन इन्द्रियेण सह सँल्लग्नं भवति, तस्य इन्द्रियस्य विषयान् तत् विभागशः गृह्णाति । एवं विभागशः विषयान् ग्रहत् मनः साधकस्य विवेकज्ञानेन उत्पन्नान् आत्मानात्मसम्बन्धिनः विचारान् नाशयति । अर्थात् तस्य बुद्धिं हरति इति ।

कथं ? चेत्, यथा जले वायुः नावं हरति, तथैव अर्थात् यथा जलमार्गयात्रिणः नावं वायुः गन्तव्यमार्गात् विपरीतमार्गं प्रति नयति, तथैव आत्मविषयेभ्यः पथभ्रष्टं कृत्वा मनः बुद्धिं विषयेषु प्रवर्तयति ।

रामानुजभाष्यम् [४]

पुनरपि उक्तेन प्रकारेण इन्द्रियनियमनम् अकुर्वतः अनर्थम् आह -

इन्द्रियाणां  विषयेषु  चरतां  विषयेषु वर्तमानानां वर्तनम् अनु  यन्मनः अनु विधीयते  पुरुषेण अनुवर्त्यते  तत्  मनः  अस्य  विविक्तात्मप्रवणां  प्रज्ञां हरति  विषेयप्रवणतां करोति इत्यर्थः। यथा  अम्भसि  नीयमानां  नावं  प्रतिकूलो  वायुः  प्रसह्य हरति।

भाष्यार्थः

प्राथम्येन उक्त्या प्रद्धत्या इन्द्रियदमनस्य अकर्ता पुरुषः कीदृशम् अनर्थं प्राप्नोति इति पुनः कथयति –

मनुष्येण विषयेषु चरताम् इन्द्रियाणां मार्गं प्रति यन्मनः योज्यते, तन्मनः तस्य मनुष्यस्य प्रकृतिसंसर्गरहितस्य आत्मनः प्रति प्रवृत्तां प्रज्ञां अर्थाद् बुद्धिं हरति । अर्थाद् इन्द्रियाणि विषयं प्रति प्रवृत्तानि करोति इति । यथा जले यात्रामग्नायाः नावः प्रतिकूलवायुबलेन हरणं भवति (मार्गच्युतिः भवति), तथैव इन्द्रियाणां भवति । फलकम्:गीताश्लोकक्रमः

फलकम्:साङ्ख्ययोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. गीता, अ. २, श्लो. ६४-६५
  3. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
  4. रामानुजभाष्यम्