आशापाशशतैर्बद्धाः...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
आशापाशशतैर्बद्धाः कामक्रोधपरायणाः ।
ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥ १२ ॥

अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य द्वादशः(१२) श्लोकः ।

पदच्छेदः

आशापाशशतैः बद्धाः कामक्रोधपरायणाः ईहन्ते कामभोगार्थम् अन्यायेन अर्थसञ्चयान् ॥

अन्वयः

अपरिमेयां प्रलयान्तां चिन्तां च उपाश्रिताः कामोपभोगपरमाः एतावत् इति निश्चिताः आशापाशशतैः बद्धाः कामक्रोधपरायणाः कामभोगार्थम् अन्यायेन अर्थसञ्चयान् ईहन्ते ।

शब्दार्थः

अपरिमेयाम् = परिमातुमशक्याम्
प्रलयान्ताम् = मरणान्ताम्
उपाश्रिताः = अवलम्बिताः
कामोप - भोगपरमाः = विषयानुभवपरमपुरुषार्थाः
एतावत् = इयत्
निश्चिताः = कृतनिर्णयाः
आशापाशशतैः = स्पृहारज्जुशतैः
कामक्रोधपरायणाः = रागद्वेषासक्ताः
कामभोगार्थम् = विषयानुभवार्थम्
अन्यायेन = अधर्मेण
अर्थसञ्चयान् = वस्तुसमुदायान्
ईहन्ते = वाञ्छन्ति ।

अर्थः

तेषां विचारः तादृशो भवति यः अपरिमितः भवति यस्य च फलं भवति अन्ततः मरणम् । तेषां मतेन विषयोपभोगरूपः कामः एव प्रधानः पुरुषार्थः । कामजन्यसुखात् अतिरिक्तं सुखं ते नाङ्गीकुर्वन्ति । नानाविधैः आशापाशैः बद्धाः ते कामक्रोधादिना सहिताः विषयभोगार्थम् अधर्म्येण मार्गेण धनसङ्ग्रहं कर्तुमिच्छन्ति ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=आशापाशशतैर्बद्धाः...&oldid=3392" इत्यस्माद् प्रतिप्राप्तम्