आचार्याः पितरः पुत्राः...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
आचार्याः पितरः पुत्रास्तथैव च पितामहाः ।
मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ॥ ३४ ॥

अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य चतुस्त्रिंशत्तमः (३४) श्लोकः ।


पदच्छेदः

आचार्याः, पितरः, पुत्राः, तथा, एव, च, पितामहाः । मातुलाः, श्वशुराः, पौत्राः, श्यालाः, सम्बन्धिनः, तथा ॥

अन्वयः

येषाम् अर्थे राज्यं भोगाः सुखानि च नः काङ्क्षितं ते इमे आचार्याः पितरः पुत्राः तथा एव पितामहाः मातुलाः श्वशुराः पौत्राः श्यालाः तथा सम्बन्धिनः प्राणान् धनानि च त्यक्त्वा युद्धे अवस्थिताः ।

शब्दार्थः

आचार्याः = गुरवः

पितरः: = पितरः
पुत्राः = पुत्राः
तथा एव = एवम्
च = च
पितामहाः = पितामहाः
मातुलाः = मातुलाः
श्वशुराः = श्वशुराः
पौत्राः = पौत्राः
श्यालाः = भार्यायाः
सम्बन्धिनः = बान्धवाः
तथा = तथा

अर्थः

येषां कृते राज्यं भोगाः सुखानि वा अपेक्षितानि आसन् ते एव बान्धवाः अधुना स्वप्राणान् धनानि च त्यक्तुम् उद्युक्ताः सन्तः युद्धे उपस्थिताः सन्ति । उपस्थिताश्च एते मम आचार्याः, पितरः, पुत्राः, पितामहाः, मातुलाः, श्वशुराः, पौत्राः, श्यालाः, बान्धवाश्च सन्ति ।

श्लोकवैशिष्ट्यम्

विषयस्य सुबोधाय मिलित्वा दत्तम् ।

बाह्यसम्पर्कतन्तुः

फलकम्:अर्जुनविषादयोगः

सम्बद्धाः लेखाः