अव्यक्तादीनि भूतानि...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement अव्यक्तादीनि भूतानि (फलकम्:IPA audio link) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः आत्मनित्यसिद्धान्तस्य, आत्मानित्यसिद्धान्तस्य च मध्यस्थितिं वर्णयति । पूर्वयोः श्लोकयोः भगवता शरीरिशरीरयोः एकत्वे स्वीकृतेऽपि शोकः न करणीयः इति उक्तम् । तयोः श्लोकयोः पूर्वम् आत्मनः नित्यत्वं प्रतिपादितम् । अधुना तयोः उभयोः स्थित्योः मध्ये या अप्रत्यक्षा स्थितिः अस्ति, तस्याः स्थित्याः आधारेण शोकस्य अयोग्यत्वं सिद्धयति । सः कथयति, हे भारत ! सर्वे प्राणिनः जन्मनः पूर्वम् अप्रकटिताः आसन्, मृत्यूत्तरं च पुनः अप्रकटिताः भविष्यन्ति । केवलं मध्ये एव ते प्रकटिताः प्रतीयन्ते । अतः तेभ्यः शोकस्य किं कारणम् ? इति ।

श्लोकः

गीतोपदेशः
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।
अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ २८ ॥

पदच्छेदः

अव्यक्तादीनि, भूतानि, व्यक्तमध्यानि, भारत । अव्यक्तनिधनानि, एव, तत्र, का, परिदेवना ॥

अन्वयः

भारत ! भूतानि अव्यक्तादीनि व्यक्तमध्यानि अव्यक्तनिधनानि एव । तत्र का परिदेवना ?

शब्दार्थः

अन्वयः विवरणम् सरलसंस्कृतम्
भारत अ.पुं.सम्बो.एक. अर्जुन !
भूतानि अ.नपुं.प्र.बहु. प्राणिनः
अव्यक्तादीनि इ.नपुं.प्र.बहु. अस्फुटमूलाः
व्यक्तमध्यानि अ.नपुं.प्र.बहु. स्फुटमध्याः
अव्यक्तनिधनानि अ.नपुं.प्र.बहु. अस्फुटान्ताः
एव अव्ययम् एव
तत्र अव्ययम् तस्मिन्
का किम्-म.सर्व.स्त्री.प्र.एक. किं वा
परिदेवना आ.स्त्री.प्र.एक. आक्रन्दनम् ?

व्याकरणम्

सन्धिः

  1. अव्यक्तनिधनान्येव = अव्यक्तनिधनानि + एव - यण्सन्धिः

समासः

  1. अव्यक्तादीनि = अव्यक्तः आदिः येषां तानि – बहुव्रीहिः ।
  2. अव्यक्तनिधनानि = अव्यक्तं निधनं येषां तानि – बहुव्रीहिः ।

कृदन्तः

  1. परिदेवना = परि + दिव् + णिच् + युच् (भावे)

अर्थः

भूतानाम् आदिः अव्यक्तः वर्तते । अन्तः अपि अव्यक्तः वर्तते । इह लोके अनुभवगोचराणि भवन्ति इति हेतोः मध्यमात्रं तु व्यक्तं दृश्यते । एवं सति तादृशेषु भूतेषु आक्रन्दनेन किं प्रयोजनम् ?

भावार्थः [१]

'अव्यक्तादीनि भूतानि' – दृश्याः, श्रव्याः, बोध्याः येऽपि प्राणिनः सन्ति, ते जन्मनः प्राग् अप्रत्यक्षाः आसन् अर्थात् ते अदृश्याः आसन् ।

'अव्यक्तनिधान्येव' – निधनोत्तरं ते प्राणिनः पुनः अप्रत्यक्षाः भवन्ति । अर्थात् तेषां नाशे सति, ते सर्वे अप्रत्यक्षाः भविष्यन्ति ।

'व्यक्तमध्यानि' – ते प्राणिनः मध्यस्थितौ अर्थात् जन्मोत्तरं, मृत्योः प्राक् प्रत्यक्षाः भवन्ति । यथा शयनाद् प्राग् स्वप्नः नासीत्, जागरणोत्तरं स्वप्नो भवति, तथैव पुरा प्राणिनां शरीराणाम् अभावः आसीत्, पश्चाच्च भविष्यति । परन्तु मध्ये भावरूपे दृश्यमाने सत्यपि वस्तुतः तेषां प्रतिक्षणम् अभावो वर्तते ।

'तत्र का परिदेवना' – यद् आद्यन्तयोः न भवति, तद् मध्येऽपि न भवति इति कश्चन सिद्धान्तः [२] । सर्वेषां प्राणिनां शरीराणि पूर्वं नासन्, पश्चाच्च न स्थास्यन्ति । अतः वस्तुतः मध्येऽपि तानि न सन्ति । परन्तु शरीरी तु पूर्वम् अपि आसीत्, पश्चाद् अपि स्थास्यति । निष्कर्षोऽस्ति यत्, शरीरस्य सर्वदा अभावः अस्ति, परन्तु शरीरिणः सर्वदा भावः । अतः उभयोः स्थित्योः शोकस्य अवसरः नोद्भवति ।

शाङ्करभाष्यम् [३]

कार्यकरणसंघातात्मकान्यपि भूतान्युद्दिश्य शोको न युक्तः कर्तुम् यतः -

अव्यक्तादीनि अव्यक्तम् अदर्शनम् अनुपलब्धिः आदिः येषां भूतानां पुत्रमित्रादिकार्यकरणसंघातात्मकानां तानि अव्यक्तादीनि भूतानि प्रागुत्पत्तेः उत्पन्नानि च प्राङ्मरणात् व्यक्तमध्यानि। अव्यक्तनिधनान्येव पुनः अव्यक्तम् अदर्शनं निधनं मरणं येषां तानि अव्यक्तनिधनानि। मरणादूर्ध्वमप्यव्यक्ततामेव प्रतिपद्यन्ते इत्यर्थः। तथा चोक्तम् अदर्शनादापतितः पुनश्चादर्शनं गतः। नासौ तव न तस्य त्वं वृथा का परिदेवना इति। तत्र का परिदेवना को वा प्रलापः अदृष्टदृष्टप्रनष्टभ्रान्तिभूतेषु भूतेष्वित्यर्थः।।

भाष्यार्थः

प्राणिनः कार्य-कारण-युक्ताः इत्येव मन्यामहे चेद्, तेषाम् कृतेऽपि शोकः उचितः नास्ति, किञ्च –

प्रारम्भे ये अव्यक्ताः अर्थाद् अनुपलब्धाः आसन्, तादृशाः एते कार्यकारणयोः सङ्घातत्वाद् पुत्र-मित्रादयः भूताः अव्यक्ताः एव । अर्थाद् जन्मनः पूर्वम् अदृश्याः आसन् । ततः उत्पन्नः भूत्वा मरणात् प्राग् मध्यस्थित्यां सः व्यक्तः भवति अर्थाद् दृश्यमानः भवति । ततः अदृश्यता एव येषां निधनम् अस्ति, तादृशाः अव्यक्तनिधनाः भविष्यन्ति ते । अर्थाद् अदृश्याः भविष्यन्ति इत्यर्थः । एवमेव उक्तम् अस्ति यद्, एषः भूतसङ्घातः अदृश्याद् आगतः पुनः अदृश्ये विलीनः भविष्यति च । सः न तवास्ति, न त्वं तस्य । अतः त्वं व्यर्थमेव शोकं किमर्थं करोषि ? [४] इति ।

ये अभूत्वापि दृश्यमानाः सन्ति, ततश्च नश्यमानाः सन्ति (नष्टाः भविष्यन्ति), तेषां भ्रान्तिरूपभूतानां विषये चिन्ता कीदृशी ? तेभ्यः रोदनं, शोकः इत्यादि कमर्थम् ?

रामानुजभाष्यम्

सतो द्रव्यस्य पूर्वावस्थाविरोध्यवस्थान्तरप्राप्तिदर्शनेन यः अल्पीयान् शोकः सोऽपि मनुष्यादिभूतेषु न संभवति इत्याह -

मनुष्यादि भूतानि सन्ति एव द्रव्याणि अनुपलब्धपूर्वावस्थानि उपलब्धमनुष्यत्वादिमध्यमावस्थानि अनुपलब्धोत्तरावस्थानि स्वेषु स्वभावेषु वर्तन्ते इति न तत्र  परिदेवना निमित्तिम् अस्ति।

भाष्यार्थः

सद्वस्तुनः पूर्वावस्थाविरोधिन्यः अपरावस्थायाः प्राप्तिं दृष्ट्वा किञ्चिद् शोकः सामान्यः । सः शोकः मनुष्यादिषु प्राणिषु असम्भवः इति कथयति –

एते मनुष्यादयः प्राणिनः तादृशानि सद्द्रव्याणि एव । येषां पूर्वास्था अर्थात् जन्मनः पूर्वावस्था अनुपलब्धा (अप्रत्यक्षा) आसीत् । ततः उत्तरावस्था अर्थात्, मृत्यूत्तरीया अवस्था अपि अनुपलब्धा भवष्यति । केवलं मनुष्यादि मध्यावस्था अर्थाद् वर्तमानकालिना अवस्था एव प्रत्याक्षा अस्ति । तानि द्रव्याणि स्वस्य स्वभावानुगुणम् एव व्यवहरन्ति, अतः तेभ्यः अपि शोकस्य किमपि कारणं नास्ति । फलकम्:गीताश्लोकक्रमः

फलकम्:साङ्ख्ययोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा, माण्डूक्यकारिका, ४/३१
  3. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
  4. अदर्शनादापतितः पुनश्चादर्शनं गतः ।
    नासौ तव न तस्य त्वं वृथा का परिदेवना ।। महाभारतम्, स्त्रीपर्व, २/१३
"https://sa.bharatpedia.org/index.php?title=अव्यक्तादीनि_भूतानि...&oldid=2262" इत्यस्माद् प्रतिप्राप्तम्