अवाच्यवादांश्च बहून्...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement अवाच्यवादांश्च बहून् (फलकम्:IPA audio link) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः 'युद्धोपरामे ते शत्रवः किं करिष्यन्ति' इति उपस्थापयति । पूर्वस्मिन् श्लोके युद्धोपरामेण महारथिनः किं मंस्यन्ते इति उक्त्वा अत्र भगवान् शत्रवः किं करिष्यन्ति इति वदति । सः कथयति यद्, शत्रवः ते सामर्थ्यं निन्दिष्यन्ति । अवचनीयानि वचनानि उक्त्वा ते अपमाननं करिष्यन्ति । तस्माद् अधिकम् अपरं दुःखं किम् ? इति ।

श्लोकः

गीतोपदेशः
अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः ।
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥ ३६ ॥

पदच्छेदः

अवाच्यवादान्, च, बहून्, वदिष्यन्ति, तव, अहिताः । निन्दन्तः, तव, सामर्थ्यम्, ततः, दुःखतरम्, नु, किम् ॥

अन्वयः

तव अहिताः तव सामर्थ्यं निन्दन्तः बहून् अवाच्यवादान् वदिष्यन्ति । ततः दुःखतरं नु किम् ?

शब्दार्थः

अन्वयः विवरणम् सरलसंस्कृतम्
तव तद्-द.सर्व.ष.एक. भवतः
अहिताः अ.पुं.प्र.बहु. शत्रवः
अव्ययम् अपि
तव तद्-द.सर्व.ष.एक. ते
सामर्थ्यम् अ.नपुं.द्वि.एक. शक्तिम्
निन्दन्तः निन्दत्-त.पुं.प्र.बहु. दूषयन्तः
बहून् उ.पुं.द्वि.बहु. नाना
अवाच्यवादान् अ.पुं.द्वि.बहु. अवक्तव्यवचनानि
वदिष्यन्ति √वद व्यक्तायां वाचि-पर.कर्तरि, लृट्.प्रपु.बहु. कथयिष्यन्ति
ततः अव्ययम् तस्मात्
दुःखतरम् अ.नपुं.प्र.एक. अतिशयितदुःखम्
नु अव्ययम्
किं किम्-म.सर्व.नपुं.प्र.एक. किमस्ति ?

व्याकरणम्

सन्धिः

  1. अवाच्यवादांश्च = अवाच्यवादान् + च – रुत्वं, विसर्गः, अनुस्वारागमः, सत्वसन्धिः, श्चुत्वं च
  2. तवाहिताः = तव + अहिताः – सवर्णदीर्घसन्धिः
  3. ततो दुःखतरम् = ततः + दुःखतरम् – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः

समासः

  1. अवाच्यवादान् = अवाच्याः वादाः, तान् – कर्मधारयः
  2. अहिताः = न हिताः नञ्तत्पुरुषः

कृदन्तः

  1. निन्दन्तः = णिदि + शतृ (कर्तरि)

तद्धितान्तः

  1. दुःखतरम् = दुःख + तरप् (अतिशये)

अर्थः

तव अहिताः तव सामर्थ्यम् निन्दन्तः बहूनि अवाच्यानि वचनानि त्वयि विषये वदिष्यन्ति । ततः दुःखतरम् अन्यत् किं भवेत् ?

भाष्यार्थः

'अहिताः अवाच्यवादांश्च निन्दन्तस्तव सामर्थ्यम्' - 'अहित' इत्युक्ते शत्रुः । अहितकारी इति । भवतु त्वं तान् प्रति वैरभावं त्येजत् । परन्तु दुर्योधन-दुःशासन-कर्णादयः ते शत्रवः त्वयि वैरबुद्धिं न त्यक्ष्यन्ति । ते तु तव अहितं करिष्यन्त्येव । त्वयि युद्धाय सामर्थ्यम् अस्ति इति ज्ञाते सत्यपि ते तव कापुरुषत्वेन प्रचारं करिष्यन्ति । अस्माकं सम्मुखं युद्धं कर्तुम् असमर्थः अर्जुनः भयाद् युद्धम् अत्यजत् इति वदिष्यन्ति । तेषां कटुवचनानि त्वं कथं सहिष्यसे ?

'ततो दुःखतरं नु किम्' – एतस्माद् महद्दुःखं किम् ? किञ्च लोके दृश्यते यद्, यदा मनुष्यः तुच्छमनुष्येभ्यः तिरस्कृतो भवति, तदा तं तिरस्कारं सोढुं न शक्नोति । तस्मिन् काले त्वं स्वयं योत्स्यसि । अधुना भवतु युद्धोपरतः, परन्तु तदा युद्धं करिष्यसि चेद्, तव निन्दा भविष्यति । तां निन्दां त्वं कथं सहिष्यसे  ?

शाङ्करभाष्यम् [१]

किञ्च -

अवाच्यवादान्  अवक्तव्यवादां श्च बहून्  अनेकप्रकारान्  वदिष्यन्ति तव अहिताः  शत्रवः  निन्दन्तः  कुत्सयन्तः  तव  त्वदीयं  सामर्थ्यं  निवातकवचादियुद्धनिमित्तम्। ततः तस्मात् निन्दाप्राप्तेर्दुःखात्  दुःखतरं नु किम्  ततः कष्टतरं दुःखं नास्तीत्यर्थः।।

भाष्यार्थः

तथा च –

ते तव शत्रवः निवात-कवचादिभिस्सह युद्धे कृते प्रदर्शितस्य तव सामर्थस्यापि निन्दां करिष्यति । निन्दन्तः ते त्वम् अनेकानि अवक्तव्यानि वचनानि अपि कथयिष्यन्ति । तेभ्यः निन्दायुक्तेभ्यः वचनेभ्यः अधिकदुःखतरं किम् ? अर्थात् तस्माद् अधिकं किमपि दुःखं न भवति इति ।

रामानुजभाष्यम् [२]

किञ्च -

शूराणाम् अस्माकं सन्निधौ कथम् अयं पार्थः क्षणम् अपि स्थातुं शक्नुयाद् अस्मत्संनिधानाद् अन्यत्र हि अस्य सामर्थ्यम् इति  तव सामर्थ्यं निन्दन्तः  शूराणाम् अग्रे  अवाच्यवादान् च बहून् वदिष्यन्ति  तव शत्रवो धार्तराष्ट्राः  ततः  अधिकतरं दुःखं  किं  तव एवंविधावाच्यश्रवणात् मरणम् एव श्रेयः इति त्वम् एव मन्यसे।

भाष्यार्थः

अतिरिक्तं च –

अस्मत्सदृशानां वीराणां सम्मुखं पार्थः क्षणं यावदपि कथं योद्धुं शक्नोति ? अस्माकं सन्निधेः परम् एव एतस्य सामर्थ्यम् अस्ति । एतादृशैः निन्दावाक्यैः तव शत्रवः धृतराष्ट्रपुत्राः ते सामर्थ्यस्य सर्वेषां योद्धॄणाम् उपस्थितौ अवाच्यानि वचनानि कथयिष्यन्ति । तुभ्यम् एतस्माद् अधिकः दुःखस्य विषयः कः भवेद् ? एतादृशानां वचनानां श्रवणापेक्षया मृत्युः एव वरम् इति त्वं स्वयमेव मंस्यसे । फलकम्:गीताश्लोकक्रमः

फलकम्:साङ्ख्ययोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

  1. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
  2. रामानुजभाष्यम्
"https://sa.bharatpedia.org/index.php?title=अवाच्यवादांश्च_बहून्...&oldid=96" इत्यस्माद् प्रतिप्राप्तम्