अमरावती, आन्ध्रप्रदेशः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement एतत् प्राचीननगरम् द्विसहस्रवर्षेभ्यः प्रागेव बौद्धानां स्थानम् आसीत् । अत्र बौद्धशिल्पानां दर्शनं भवति । २० बौद्धमठाः सन्ति । कृष्णानदीतीरे स्थिते अमरावती नगरे अनेकबौद्धस्मारकाणि(स्थूपाः) सन्ति । पूर्वं सहस्रशः बौद्धभिक्षवः अत्र आसन् । स्थूपेषु भगवतः बुद्धस्य सुन्दरप्रतिमाः सन्ति । अष्टादशशतके सर्वं विनष्टम् अभवत् । इदानीं तस्य अवशेषाः चेन्नैनगरे वस्तुसङ्ग्रहालये सन्ति । पूर्वम् एतत् नगरं शातवाहनसाम्राज्यस्य राजधानी आसीत् । अमरेश्वरदेवालयः अत्र सुप्रसिद्धः अस्ति । प्रतिदिनम् सहस्रशः जनाः अत्र आगच्छन्ति ।

वाहनमार्गः

गुण्टूरुतः ३२ कि.मी । विजयवाडा हैदराबाद् इत्यादिनगरेभ्यः वाहनसम्पर्कः अस्ति ।

धूमशकटमार्गः

गुण्टूरुमछलीपट्टणमार्गे माचेला निस्थानतः समीपे अस्ति ।