अपरं भवतो जन्म...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
अर्जुन उवाच
अपरं भवतो जन्म परं जन्म विवस्वतः ।
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥ ४ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य चतुर्थः(४) श्लोकः ।

पदच्छेदः

अपरं भवतः जन्म परं जन्म विवस्वतः कथम् एतत् विजानीयां त्वम् आदौ प्रोक्तवान् इति ॥ ४ ॥

अन्वयः

भवतः जन्म अपरम्, विवस्वतः जन्म परम् । (तस्मात्) त्वम् आदौ एतत् प्रोक्तवान् इति कथं विजानीयाम् ?

शब्दार्थः

भवतः = तव
जन्म = जननम्
अपरम् = उत्तरकालिकम्
विवस्वतः = सूर्यस्य
जन्म = जननम्
परम् = पूर्वकालिकम्
त्वम् = भवान्
आदौ = प्रथमतः
एतत् = इमं विषयम्
प्रोक्तवान् इति = कथितवान् इति
कथम् = केन प्रकारेण
विजानीयाम् = ज्ञातुं शक्नुयाम् ।

अर्थः

भवतः जन्म अधुनातनं (अस्मिन् युगे) ज्ञायते । सूर्यस्य जन्म तु अतिप्राचीनम् (कल्पादौ) इति ज्ञायते । एवं स्थिते भवान् सूर्याय इमं योगं प्रोक्तवानिति कथम् अहं विश्वसिमि ?

शाङ्करभाष्यम्

भगवता विप्रतिषिद्धमुक्तमिति मा भूत्कस्यचिद्बुद्धिरिति परिहारार्थं चोद्यमिव कुर्वन्नर्जुन उवाच-अपरमिति। अपरमर्वाग् वसुदेवगृहे भवतो जन्म, परं पूर्वं सर्गादौजन्मोत्पत्तिर्विवस्वत आदित्यस्य तत्कथमेतद्विजानीयामविरुद्धार्थतया यस्त्वमैवादौ प्रोक्तवानिमं योगं स एव त्वसिदानीं मह्यं प्रोक्तवानसीति।।4।।

फलकम्:गीताश्लोकक्रमः

फलकम्:ज्ञानकर्मसंन्यासयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=अपरं_भवतो_जन्म...&oldid=7099" इत्यस्माद् प्रतिप्राप्तम्