अन्ये च बहवः शूरा...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ ९ ॥

अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य नवमः (९) श्लोकः ।

पदच्छेदः

अन्ये, च, बहवः, शूराः, मदर्थे, त्यक्तजीविताः । नानाशस्त्रप्रहरणाः, सर्वे, युद्धविशारदाः ॥९॥

अन्वयः

नानाशस्त्रप्रहरणाः शूराः सर्वे युद्धविशारदाः अन्ये च बहवः मदर्थे त्यक्तजीविताः (सन्ति) ।

शब्दार्थः

अन्ये = इतरे,
बहवः = नैके,
शूराः = विक्रमिणः,
मदर्थे = मम कृते,
त्यक्तजीविताः = अर्पितप्राणाः,
नानाशस्त्रप्रहरणाः = बहुशस्त्राः,
सर्वे = सकलाः,
युद्धविशारदाः = समरनिपुणाः ।

अर्थः

न केवलम् एतावन्तः, अन्येऽपि बहवः मदर्थं प्राणान् समर्पयितुं सिद्धाः बहुविधानि प्रहारसाधनानि शस्त्राणि धृतवन्तः समरनिष्णाताः विक्रमिणः सैन्ये सन्ति ।

बाह्यसम्पर्कतन्तुः

http://www.gitasupersite.iitk.ac.in

फलकम्:अर्जुनविषादयोगः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=अन्ये_च_बहवः_शूरा...&oldid=7768" इत्यस्माद् प्रतिप्राप्तम्