अनुद्वेगकरं वाक्यं...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥ १५ ॥

अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य पञ्चदशः(१५) श्लोकः ।

पदच्छेदः

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् स्वाध्यायाभ्यसनं च एव वाङ्मयं तपः उच्यते ॥

अन्वयः

अनुद्वेगकरं सत्यं प्रियहितं च यत् वाक्यं स्वाध्यायाभ्यसनं च एव वाङ्मयं तपः उच्यते ।

शब्दार्थः

अनुद्वेगकरम् = अक्षोभकरम्
सत्यम् = यथार्थम्
प्रियहितं = इष्टं हितकरं च
वाक्यम् = वचनम्
स्वाध्यायाभ्यसनम् = वेदाभ्यासः
वाङ्मयम् = वाग्रूपम् ।

अर्थः

अक्षोभकरं यथार्थम् इष्टं हितकरं च यत् वचनम्, वेदाभ्यासः तथा वाङ्मयं तपः उच्यते ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=अनुद्वेगकरं_वाक्यं...&oldid=4345" इत्यस्माद् प्रतिप्राप्तम्