अत्रिः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox character फलकम्:हिन्दूधर्मः अस्य मन्वन्तरस्य सप्तर्षिषु अन्यतमः अयम् ऋषिः । अयं ब्रह्ममानसपुत्रः । कर्दमस्य पुत्री अनसूया अस्य पत्नी । अनयोः पुत्राः दत्तात्रेयः, दुर्वासमुनिः, चन्द्रः च । (आधारः - महाभारतम् - आदि ६६, सभा ११, मत्स्य १४४) । अस्य चन्द्रः आर्यमः इति उभौ पुत्रौ (शान्ति २०७) । अस्य नेत्रेण एव चन्द्रः अजायत । (भागवतम् ९ १४) । अस्य शत्रुञ्जयः विपाठः इत्यादयः पुत्राः । असुराः अत्रिं शतद्वारयुक्ते तुषाग्नौ अस्थापयन् । तदा अत्रिः अश्विनीदेवताः संस्तुतवान् । ताः प्रत्यक्षीभूय जलेन अग्निम् उपशम्य अत्रिम् अरक्षन् । ध्रुवस्य पितरम् उत्तानपादम् अत्रिः दत्तकरूपेण स्व्यकरोत् । बुधः अत्रिगोत्रीयः ।

फलकम्:सप्तर्षयः

फलकम्:रामायणम्

"https://sa.bharatpedia.org/index.php?title=अत्रिः&oldid=10329" इत्यस्माद् प्रतिप्राप्तम्