अज्ञश्चाश्रद्दधानश्च...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ।
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ ४० ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य चत्वारिंशत्तमः(४०) श्लोकः ।

पदच्छेदः

अज्ञः च श्रद्दधानः च संशयात्मा विनश्यति न अयं लोकः अस्ति न परः न सुखं संशयात्मनः ॥ ४० ॥

अन्वयः

अज्ञः च अश्रद्दधानः च संशयात्मा विनश्यति । संशयात्मनः अयं लोकः नास्ति, परः न, सुखं च न ।

शब्दार्थः

अज्ञः च = अज्ञानी च
अश्रद्दधानः च = श्रद्धाविहीनः च
संशयात्मा = संशयमनस्कः
विनश्यति = प्रणश्यति
संशयात्मनः = संशयचित्तस्य
अयं लोकः नास्ति = इह लोकः न विद्यते
परः न = परलोकः न
सुखं च न = सन्तोषः अपि न विद्यते ।

अर्थः

यस्य आत्मविषयकं ज्ञानं नास्ति, यस्य च तत्र श्रद्धा नास्ति तयोरेव संशयः भवति । संशये सति मुक्तिरूपं फलं न प्राप्नोति । तादृशस्य संशयात्मनः अयं लोकः न सुखदायकः, नापि परलोकः । तस्य च अस्मिन् संसारे क्लेशानुभवः एव गतिः ।

शाङ्करभाष्यम्

अत्र संशयो न कर्तव्यः। पापिष्ठो हि संशयः कथमित्युच्यते-अज्ञश्चेति। अज्ञश्चानात्मज्ञोऽश्रद्दधानश्च संशयात्मा च विनश्यति, अज्ञाश्रद्दधानौ यद्यपि विनश्यतस्तथापिन तथा यथा संशयात्मा, संशयात्मा तु पापिष्ठः सर्वेषां, कथं, नायं साधारणोऽपि लोकोऽस्ति सथा न परो लोको न सुखं तत्रापि संशयोपपत्तेः। संशयात्मनः संशयचित्तस्य।तस्मात्संशयो न कर्तव्यः ।।40।।

फलकम्:गीताश्लोकक्रमः

फलकम्:ज्ञानकर्मसंन्यासयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु