तमस्त्वज्ञानजं विद्धि...

भारतपीडिया तः
१३:००, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् ।
प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥ ८ ॥

अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य अष्टमः(८) श्लोकः ।

पदच्छेदः

तमः तु अज्ञानजं विद्धि मोहनं सर्वदेहिनाम् प्रमादालस्यनिद्राभिः तत् निबध्नाति भारत ॥ ८ ॥

अन्वयः

भारत ! सर्वदेहिनां मोहनं तमः तु अज्ञानजं विद्धि । तत् प्रमादालस्यनिद्राभिः निबध्नाति ।

शब्दार्थः

सर्वदेहिनाम् = सकलशरीरभृताम्
मोहनम् = अविवेककरम्
तमः = तमोगुणः
अज्ञानजम् = अविवेकजनितम्
प्रमादात् = अनवधानात् ।

अर्थः

अर्जुन ! गुणेषु यत् तृतीयं तमः अज्ञानात् सम्भवति । इदं च तमः सर्वेषां प्राणिनां भ्रान्तिं जनयति । अनेन गुणेन सर्वेषाम् अनवधानं जाड्यं निद्रा च सम्भवति । एवमिदं तमः पुरुषं संसारे बध्नाति ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः