तडियाण्डमोल्पर्वतः
१२:४४, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
तडियाण्डमोल्पर्वतः (Tadiandamol) कर्णाटकस्य कोडगुमण्डले विद्यमानः अत्युन्नतः गिरिः । कोडवभाषाया तडियण्डमोल् इत्युक्ते उन्नतः पर्वतः इत्येव अर्थः । पश्चिमपर्वतस्य शृङ्खलायाम् एव एषः अन्तर्गच्छति । अस्य औन्नत्यं सामन्यतः १७४८ मी. अस्ति । चरणप्रियाणामपि एतत् स्थानं प्रियतमं भवति । विराजपेटेप्रदेशतः ३०कि.मी.दूरे अस्ति । पर्वतमस्तके शाद्वलाः पर्वतं परितः शोलारण्यं विद्यते । पर्वतस्य सानुप्रदेशे चत्वारः प्रासादाः सन्ति येषां शतमानस्य इतिहासः वर्तते ।