ऌट् लकारः - भविष्यत्कालः

भारतपीडिया तः
१७:००, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Underlinked

संस्कृतभाषायां कालविध्यादिक्रियाः निर्मातुं लकारः इति काचित् व्यवस्था अस्ति । तत्र लकाराः दश भवन्ति ते यथा...

१.लट् । २.लेट् । ३.लङ् । ४.लुङ् । ५.लिट् । ६.लिङ् । ७.लोट् । ८.लुट् । ९.ऌट् । १०.ऌङ् ।

एते दश लकाराः द्विधा विभक्ताः सन्ति ।

  1. सार्वधातुकाः / सविकरणकालार्थाः
  2. अर्धधातुकाः / अविकरणकालार्थाः

तत्र ऌट् लकारः भविष्यत्कालम् बोधयति । अयम् अर्धधातुकेषु अन्यतमः वर्तते । एषः सामान्यभविष्यत्कालः इत्यपि उच्यते । सामान्यभूतकालः इव अद्य यद् करिष्यते कालनिर्देशं विना भविष्यत्काले यद् करिष्यते तस्य कथनाय लृट्लकारस्य उपयोगः क्रियते ।

उदा - अद्य रामायणं पठिष्यति ।
रात्रिर्गमिष्यति भविष्यति सुप्रभातम् ।
पठ् धातोः ऌट् लकारे रूपाणि
ऌट् लकारः(परस्मैपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पठिष्यति पठिष्यतः पठिष्यन्ति
मध्यमपुरुषः पठिष्यसि पठिष्यथः पठिष्यथ
उत्तमपुरुषः पठिष्यामि पठिष्यावः पठिष्यामः
ऌट् (परसस्मैपदम्) लकारस्य आख्यातप्रत्ययाः(तिङ्प्रत्ययाः)
ऌट् लकारः(परस्मैपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्यति स्यतः स्यन्ति
मध्यमपुरुषः स्यसि स्यथः स्यथ
उत्तमपुरुषः स्यामि स्यावः स्यामः
सेव् धातोः ऌट् लकारे रूपाणि
ऌट् लकारः(आत्मनेपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सेविष्यते सेविष्येते सेविष्यन्ते
मध्यमपुरुषः सेविष्यसे सेविष्येथे सेविष्यध्वे
उत्तमपुरुषः सेविष्ये सेविष्यावहे सेविष्यामहे
ऌट् (आत्मनेपदम्) लकारस्य आख्यातप्रत्ययाः(तिङ्प्रत्ययाः)
ऌट् लकारः(आत्मनेपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्यते स्येते स्यन्ते
मध्यमपुरुषः स्यसे स्येथे स्यध्वे
उत्तमपुरुषः स्ये स्यावहे स्यामहे


इमे अपि पश्यन्तु

Reference

  • संस्क्रतशब्दचन्द्रिका Vidvan S.Ranganatha Sharma, Sri Surasaraswathi Sabha, Bangalore, India,1994.
  • अनुवादप्रदीपः Sri Surasaraswathi Sabha, Bangalore, India,1997.