फलकम्:Underlinked
संस्कृतभाषायां कालविध्यादिक्रियाः निर्मातुं लकारः इति काचित् व्यवस्था अस्ति । तत्र लकाराः दश भवन्ति ते यथा...
१.लट् । २.लेट् । ३.लङ् । ४.लुङ् । ५.लिट् ।
६.लिङ् । ७.लोट् । ८.लुट् । ९.ऌट् । १०.ऌङ् ।
एते दश लकाराः द्विधा विभक्ताः सन्ति ।
- सार्वधातुकाः / सविकरणकालार्थाः
- अर्धधातुकाः / अविकरणकालार्थाः
तत्र ऌट् लकारः भविष्यत्कालम् बोधयति । अयम् अर्धधातुकेषु अन्यतमः वर्तते । एषः सामान्यभविष्यत्कालः इत्यपि उच्यते । सामान्यभूतकालः इव अद्य यद् करिष्यते कालनिर्देशं विना भविष्यत्काले यद् करिष्यते तस्य कथनाय लृट्लकारस्य उपयोगः क्रियते ।
- उदा - अद्य रामायणं पठिष्यति ।
- रात्रिर्गमिष्यति भविष्यति सुप्रभातम् ।
पठ् धातोः ऌट् लकारे रूपाणि
ऌट् लकारः(परस्मैपदम्) |
एकवचनम् |
द्विवचनम् |
बहुवचनम्
|
प्रथमपुरुषः |
पठिष्यति |
पठिष्यतः |
पठिष्यन्ति
|
मध्यमपुरुषः |
पठिष्यसि |
पठिष्यथः |
पठिष्यथ
|
उत्तमपुरुषः |
पठिष्यामि |
पठिष्यावः |
पठिष्यामः
|
ऌट् (परसस्मैपदम्) लकारस्य आख्यातप्रत्ययाः(तिङ्प्रत्ययाः)
ऌट् लकारः(परस्मैपदम्) |
एकवचनम् |
द्विवचनम् |
बहुवचनम्
|
प्रथमपुरुषः |
स्यति |
स्यतः |
स्यन्ति
|
मध्यमपुरुषः |
स्यसि |
स्यथः |
स्यथ
|
उत्तमपुरुषः |
स्यामि |
स्यावः |
स्यामः
|
सेव् धातोः ऌट् लकारे रूपाणि
ऌट् लकारः(आत्मनेपदम्) |
एकवचनम् |
द्विवचनम् |
बहुवचनम्
|
प्रथमपुरुषः |
सेविष्यते |
सेविष्येते |
सेविष्यन्ते
|
मध्यमपुरुषः |
सेविष्यसे |
सेविष्येथे |
सेविष्यध्वे
|
उत्तमपुरुषः |
सेविष्ये |
सेविष्यावहे |
सेविष्यामहे
|
ऌट् (आत्मनेपदम्) लकारस्य आख्यातप्रत्ययाः(तिङ्प्रत्ययाः)
ऌट् लकारः(आत्मनेपदम्) |
एकवचनम् |
द्विवचनम् |
बहुवचनम्
|
प्रथमपुरुषः |
स्यते |
स्येते |
स्यन्ते |
|
मध्यमपुरुषः |
स्यसे |
स्येथे |
स्यध्वे |
|
उत्तमपुरुषः |
स्ये |
स्यावहे |
स्यामहे |
|
इमे अपि पश्यन्तु
Reference
- संस्क्रतशब्दचन्द्रिका Vidvan S.Ranganatha Sharma, Sri Surasaraswathi Sabha, Bangalore, India,1994.
- अनुवादप्रदीपः Sri Surasaraswathi Sabha, Bangalore, India,1997.