उडुपि रामचन्द्र राव
१३:११, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
यु आर् राव् इति प्रसिद्धः उडुपि रामचन्द्ररावः कश्चन प्रसिद्धः अन्तरिक्षविज्ञानी । भारतीयान्तरिक्षसंशोधनसंस्थायाः भूतपूर्वाध्यक्षः वर्तते । भारतीयसर्वकारेण १९७६ तमे वर्षे पद्मभूषणप्रशस्त्या अयं सम्मानितः ।
बाल्यजीवनं शिक्षणञ्च
यु आर् रावः कर्णाटकराज्यस्य उडुपिमण्डलस्थे अदमारुग्रामे अजायत । अदमारुग्रामे एव तदीयं प्राथमिकं शिक्षणं सम्पन्नम् । अग्रे सः उडुपिनगरस्थायां क्रिश्चियन्प्रौढशालायाम् अपठत् । बि एस् सि पदवी - मड्रास्-विश्वविद्यालयः, भारतम्, एम् एस् सि पदवी - बनारस् हिन्दु विश्वविद्यालयः, भारतम्, १९५२ पि एच् डि - गुजरात्-विश्वविद्यालयः, भारतम्, १९६०