अभ्यासयोगयुक्तेन...
१२:५३, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
श्लोकः
- अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ।
- परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥ ८ ॥
अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य अषटमः(८) श्लोकः ।
पदच्छेदः
अभ्यासयोगयुक्तेन चेतसा नान्यगामिना परमं पुरुषं दिव्यं याति पार्था अनुचिन्तयन् ॥ ८ ॥
अन्वयः
पार्थ ! अभ्यासयोगयुक्तेन नान्यगामिना चेतसा अनुचिन्तयन् दिव्यं परमं पुरुषं याति ।
शब्दार्थः
- पार्थ = अर्जुन !
- अभ्यासयोगयुक्तेन = आवर्तनरूपेण उपायेन सहितः
- नान्यगामिना = अनन्यगतेन
- चेतसा = मनसा
- अनुचिन्तयन् = अनुध्यायन्
- दिव्यम् = दिवि वर्तमानम्
- परमं पुरुषम् = निरतिशयं पुरुषम्
- याति = गच्छति ।
अर्थः
अर्जुन ! यः अभ्यासरूपम् उपायम् अवलम्ब्य एकाग्रेण चित्तेन ध्यायति सः दिव्यं पुरुषं प्राप्नोति ।