अभ्यासयोगयुक्तेन...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

गीतोपदेशः
अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ।
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥ ८ ॥

अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य अषटमः(८) श्लोकः ।

पदच्छेदः

अभ्यासयोगयुक्तेन चेतसा नान्यगामिना परमं पुरुषं दिव्यं याति पार्था अनुचिन्तयन् ॥ ८ ॥

अन्वयः

पार्थ ! अभ्यासयोगयुक्तेन नान्यगामिना चेतसा अनुचिन्तयन् दिव्यं परमं पुरुषं याति ।

शब्दार्थः

पार्थ = अर्जुन !
अभ्यासयोगयुक्तेन = आवर्तनरूपेण उपायेन सहितः
नान्यगामिना = अनन्यगतेन
चेतसा = मनसा
अनुचिन्तयन् = अनुध्यायन्
दिव्यम् = दिवि वर्तमानम्
परमं पुरुषम् = निरतिशयं पुरुषम्
याति = गच्छति ।

अर्थः

अर्जुन ! यः अभ्यासरूपम् उपायम् अवलम्ब्य एकाग्रेण चित्तेन ध्यायति सः दिव्यं पुरुषं प्राप्नोति ।

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=अभ्यासयोगयुक्तेन...&oldid=3251" इत्यस्माद् प्रतिप्राप्तम्