लृ
२०:१४, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
एषः ह्रस्वः स्वरः । अस्य दीर्घरूपं नास्ति ।स्वरवर्णेषु एषः नवमः वर्णः अस्ति ।उदात्तः अनुदात्तः, स्वरितः इति अस्य भेदत्रयम् ।पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य । आहत्य षड्विधम् अस्ति अस्य ।अस्य उच्चारणस्थानंदन्ताः सन्ति।
नानार्थाः
"लृकारो देवताम्बायां भुवि कुध्रे च कीर्तितः" – मेदिनीकोशः
“लृ कुत्सायां विस्मये च”- हेमकोशः