यो मामेवमसम्मूढो...

भारतपीडिया तः
१३:१२, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् ।
स सर्वविद्भजति मां सर्वभावेन भारत ॥ १९ ॥

अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य नवदशः(१९) श्लोकः ।

पदच्छेदः

यः माम् एवम् असम्मूढः जानाति पुरुषोत्तमम् सः सर्ववित् भजति मां सर्वभावेन भारत ॥

अन्वयः

भारत ! यः असम्मूढः मां पुरुषोत्तमं जानाति सः सर्ववित् सर्वभावेन भजति ।

शब्दार्थः

असम्मूढः = विवेकी
सर्ववित् = सर्वज्ञः
सर्वभावेन = सर्वात्मना ।

अर्थः

अर्जुन ! यः मानवः विवेकी सन् एवं मां पुरुषोत्तमं वेत्ति सः मानवः सर्वज्ञः । सः सर्वप्रकारेण मामेव सेवते ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=यो_मामेवमसम्मूढो...&oldid=10580" इत्यस्माद् प्रतिप्राप्तम्