न मां दुष्कृतिनो मूढाः...
१३:०३, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
श्लोकः
- न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः।
- माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥ १५ ॥
अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य पञ्चदशः(१५) श्लोकः ।
पदच्छेदः
न मां दुष्कृतिनः मूढाः प्रपद्यन्ते नराधमाः मायया अपहृतज्ञाना आसुरं भावम् आश्रिताः ॥ १५ ॥
अन्वयः
मायया अपहृतज्ञानाः आसुरं भावम् आश्रिताः दुष्कृतिनः मूढाः नराधमाः मां न प्रपद्यन्ते ।
शब्दार्थः
- मायया = मायाशक्त्या
- अपहृतज्ञानाः = निरस्तज्ञानाः
- आसुरम् = हिंसादिरूपम्
- भावम् = स्वभावम्
- आश्रिताः = प्राप्ताः
- दुष्कृतिनः = पापकारिणः
- मूढाः = अविवेकिनः
- नराधमाः = नीचमानवाः
- मां न प्रपद्यन्ते = मां न भजन्ति ।
अर्थः
मायया येषां ज्ञानम् अपहृतं भवति तादृशाः राक्षसानां स्वभावं प्राप्ताः पापकारिणः अविवेकिनः नीचमानवाः मां न भजन्ति ।