न मां दुष्कृतिनो मूढाः...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

गीतोपदेशः
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः।
माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥ १५ ॥

अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य पञ्चदशः(१५) श्लोकः ।

पदच्छेदः

न मां दुष्कृतिनः मूढाः प्रपद्यन्ते नराधमाः मायया अपहृतज्ञाना आसुरं भावम् आश्रिताः ॥ १५ ॥

अन्वयः

मायया अपहृतज्ञानाः आसुरं भावम् आश्रिताः दुष्कृतिनः मूढाः नराधमाः मां न प्रपद्यन्ते ।

शब्दार्थः

मायया = मायाशक्त्या
अपहृतज्ञानाः = निरस्तज्ञानाः
आसुरम् = हिंसादिरूपम्
भावम् = स्वभावम्
आश्रिताः = प्राप्ताः
दुष्कृतिनः = पापकारिणः
मूढाः = अविवेकिनः
नराधमाः = नीचमानवाः
मां न प्रपद्यन्ते = मां न भजन्ति ।

अर्थः

मायया येषां ज्ञानम् अपहृतं भवति तादृशाः राक्षसानां स्वभावं प्राप्ताः पापकारिणः अविवेकिनः नीचमानवाः मां न भजन्ति ।

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः