दन्तेवाडामण्डलम्
१९:०१, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
दन्तेवाडामण्डलम् (Dantewada District) छत्तीसगढराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं दन्तेवाडा नगरम् ।
भौगोलिकम्
दन्तेवाडामण्डलस्य विस्तारः ३४१० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे ओडिशाराज्यम्, पश्चिमे इन्द्रावति नदी, उत्तरे बस्तर्मण्डलम्, दक्षिणे आन्ध्रप्रदेशराज्यम् च अस्ति । अत्र इन्द्रावती नदी प्रवहति ।
जनसङ्ख्या
२००१ जनगणनानुगुणं दन्तेवाडामण्डलस्य जनसङ्ख्या २४७०२९ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४५ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १५.५६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१०१६ अस्ति । अत्र साक्षरता ३३.२१% अस्ति ।
उपमण्डलानि
अस्मिन् मण्डले चत्वारि उपमण्डलानि सन्ति । तानि-
बाह्यानुबन्धाः
- फलकम्:Official website
- Tribes of Dantewada District
- [१] Information about Dantewada