कच्चिदेतच्छ्रुतं पार्थ...
१२:५७, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
श्लोकः
- कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा ।
- कच्चिदज्ञानसम्मोहः प्रणष्टस्ते धनञ्जय ॥ ७२ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य द्विसप्ततितमः(७२) श्लोकः ।
पदच्छेदः
कच्चिदेतत् शृतं पार्थ त्वया एकाग्रेण चेतसा कच्चित् अज्ञानसम्मोहः प्रणष्टः ते धनञ्जय ॥
अन्वयः
पार्थ ! त्वया एकाग्रेण चेतसा एतत् श्रुतं कच्चित् । धनञ्जय ! ते अज्ञानसम्मोहः प्रणष्टः कच्चित् ।
शब्दार्थः
- एकाग्रेण = अवहितेन
- चेतसा = चित्तेन
- श्रुतं कच्चित् = आकर्णितं किम्
- अज्ञानसम्मोहः = अज्ञानजन्यः विपर्ययः
- प्रणष्टः कच्चित् = अपगतः किम् ।
अर्थः
अर्जुन ! त्वया अवहितेन चित्तेन इदं श्रुतं किम् ? अर्जुन ! तव अविवेकः अपगतः किम् ?