कच्चिदेतच्छ्रुतं पार्थ...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा ।
कच्चिदज्ञानसम्मोहः प्रणष्टस्ते धनञ्जय ॥ ७२ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य द्विसप्ततितमः(७२) श्लोकः ।

पदच्छेदः

कच्चिदेतत् शृतं पार्थ त्वया एकाग्रेण चेतसा कच्चित् अज्ञानसम्मोहः प्रणष्टः ते धनञ्जय ॥

अन्वयः

पार्थ ! त्वया एकाग्रेण चेतसा एतत् श्रुतं कच्चित् । धनञ्जय ! ते अज्ञानसम्मोहः प्रणष्टः कच्चित् ।

शब्दार्थः

एकाग्रेण = अवहितेन
चेतसा = चित्तेन
श्रुतं कच्चित् = आकर्णितं किम्
अज्ञानसम्मोहः = अज्ञानजन्यः विपर्ययः
प्रणष्टः कच्चित् = अपगतः किम् ।

अर्थः

अर्जुन ! त्वया अवहितेन चित्तेन इदं श्रुतं किम् ? अर्जुन ! तव अविवेकः अपगतः किम् ?

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः