औपश्लेषिकसप्तमी
१३:३०, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
एकदेशव्याप्तिरुपः आधारः औपश्लेषिकः । सः च संयोगमूलकः समवायमूलको वा भवति । अयम् आधारः स्वस्य एकदेशव्याप्तिरुपो भवति, न तु सकलावयवव्याप्तिरुपः । यथा –कटे उपविशति । अत्र कटः उपवेशनक्रियायाः आधारः । किन्तु उपवेशनक्रिया कटस्य एकदेशे भवति, न तु कृत्स्ने कटे । अत्र सम्बन्धः संयोगः । अतः अयम् औपश्लेषिकः आधारः । ‘पाचकः स्थाल्याम् ओदनं पचति’ इत्यत्र तु ओदनं कर्म । तन्कर्मनिष्ठक्रियायाः आधारः स्थाली । एषोऽपि औपश्लेषिकः एव ।