रमोन् मेग्सेसे
फलकम्:Infobox Officeholder रमोन् एफ् मेग्सेसे ( Ramón del Fierro Magsaysay)फिलिपीन्सदेशस्य प्रमुखः राजनीतिज्ञः सप्तमः राष्ट्रपतिश्च आसीत् । उत्तमशासकः, प्रजानुरागी रमोन्-वर्यः जनसामान्यानाम् आराध्यमूर्तिरित्येव प्रसिद्धः आसीत् । तदर्थं फिलिपीन्ससर्वकारः प्रतिवर्षं एतस्य नाम्नि विभिन्नक्षेत्राणां साधकानां कृते प्रशस्तिं ददाति । सार्वजनिक-सर्वकार-समुदायनायकत्वसेवासु-साहित्य- कला- पत्रिकोद्यमक्षेत्रेषु निरताः अत्युत्तमजनाः एतां मेग्सेसेप्रशस्तिं प्राप्नुवन्ति । मेग्सेसेप्रशस्तिः एशियाखण्डस्य 'नोबेल्' इत्यपि उच्यते ।
जन्म बाल्यञ्च
रमोन्-महोदयः १९०७ तमे वर्षे आगष्ट्मासस्य ३१ दिनाङ्के जाम्बलीसराज्यस्य 'इम्बा' इत्यस्मिन् ग्रामे जन्म प्राप्तवान् । अस्य पिता 'एक्सेक्बिल् मेग्सेसे' कश्चन लोहकारः, माता 'पर्फॆक्टा डेल्फियरो' शालायां उपाध्यायिनी । रामोन्वर्यः १९२७तमे वर्षे फिलिपीन्सविश्वविद्यालयतः तान्त्रिकपदवीं (B E)प्राप्तवान् । तदनन्तरम् 'इन्स्टित्यूट् आफ् कामर्स्' इत्यस्मात् संस्थातः वाणिज्यशास्त्रे अपि पदवीं प्राप्तवान् । निर्धनत्वकारणात् अध्ययनावसरे चालकवृत्तेः द्वारा धनार्जनं कृत्वा पठति स्म। पठनानन्तरं कानिचन दिनानि अभियान्त्रिकीकार्यं कृतवान् ।
सेनायां कार्यम्
द्वितीयमहायुद्धावसरे फिलिपीन्स्देशस्य सेनां प्रविष्टवान् । १९४२तमे संवत्सरे बेटान्-देशस्य पराजयस्य अनन्तरम् एषः ततः बहु कष्टेन पलाय्य 'पाश्चात्त्य लुज़ान् गेरिल्ला'-सेनायाः नायकत्वं स्वीकृतवान् । १९४२ आगष्टमासतः वर्षत्रयं तत्रैव कार्यं कुर्वन् जाम्बलीसराज्यस्य 'स्टान् मार्सॆलीनो'कार्याचरणस्य प्रमुखः अपि आसीत् । जाम्बलीसराज्यस्य सागरतटस्य प्रदेशः जपानदेशीयैः आक्रान्तः आसीत् । १९४५तमे वर्षे तस्य प्रदेशस्य स्वातन्त्रस्य प्राप्तौ रमोन्वर्यस्य बहु मुख्यं योगदानमस्ति ।
राजनीतिक्षेत्रे रामोनवर्यः
द्वितीयविश्वयुद्धावसरे रमोनवर्यः "गेरिल्लागणस्य"नायकरूपेण अप्रतिमसाहसं प्रदर्शितवान् । तदर्थम् एषः जाम्बलीसाराज्यस्य सेनादलप्रमुखत्वेन नियोजितः । तदनन्तरं जाम्बलीसराज्यस्य "लिबेरल्पक्षे" चक्रद्वये सदस्यत्वं प्राप्य सेवां कृतवान् । राष्ट्रियरक्षणादलस्य कार्यदर्शिपदवीम् अपि एषः अलङ्कृतवानासीत्। १९५३तमे संवत्सरे डिसेम्बर्-मासस्य ३०तमे दिनाङ्के रमोन्वर्यः फिलिपीन्सगणतन्त्रदेशस्य ( Republic Of Philipines) राष्ट्रपतिः अभवत् ।
वैयक्तिकजीवनम्
रमोन्वर्यः 'लूज़् मेग्सेसे' इति नाम्नीं परिणीतवान् । एतयोः त्रयः पुत्राः । १९५७तमे वर्षे रमोन्महोदयस्य राष्ट्रपति-अधिकारावधेः समाप्तिः आसीत्। किन्तु ततः पूर्वमेव मार्चमासस्य १६दिनाङ्के एव विमानदुर्घटनायां रामोन्वर्यः दुर्मरणं प्राप्तवान् ।
बाह्यानुबन्धाः
- The Philippine Presidency Project
- Ramon Magsaysay on the Presidential Museum and Library
- Ramon Magsaysay on the Official Gazette