फलकम्:मुख्यपृष्ठं -आधुनिकलेखः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ
विजयनगरसाम्राज्यम्

विजयनगरसाम्राज्यस्य स्थापना कर्णाटकराज्ये चतुर्दशशतकस्योत्तरार्धे अभवत्। कर्णाटकस्य इतिहासे अत्यन्तं प्रमुखघटना एषा इति इतिहासकाराः वदन्ति। विजयनगरसाम्राज्यं १३३६ तमे वर्षे हरिहरः (हक्क) तथा बुक्करायः इति सहोदराभ्यां संस्थापितम्। अस्य साम्राज्यस्य राजधानी आसीत् विजयनगरम्। विजयनगरम् इदानीन्तनस्य कर्णाटकस्य "हम्पी"प्रदेशः। कृष्णदेवरायस्य शासनावसरे एतत् साम्राज्यम् उत्तुङ्गस्थितिं प्राप्नोत्। यद्यपि १५६५ तमे वर्षे ताळीकोटेयुद्धे अस्य साम्राज्यस्य पराभवः जातः तथापि पुनरेकं शतकं यावत् लघुप्रमाणेन शासनम् अकरोत्। तदानीन्तनकालस्य दक्षिणभारतस्य राज्यानि इण्डोनेशियापर्यन्तम् अपि प्रभावस्य प्रसारम् अकुर्वन्। विशालः आग्नेय-एषिया-प्रदेशः अपि एतेषाम् अधीने आसन्। कालान्तरे हिन्दुराजवंशाणां बहमनिसुल्तानानां च परस्परं कलहः आरब्धः। तस्य परिणामरूपेण तावत्पर्यन्तं दूरे एव स्थितयोः हिन्दु-मुस्लिं-संस्कृत्योः परस्परं सम्पर्कः सञ्जातः। कला-शिल्पकलाक्षेत्रे विजयनगरसाम्राज्यस्य योगदानं महत् अस्ति। कन्नडं,तेलुगुभाषा, संस्कृतभाषायाःइत्यादिभाषासाहित्ये अपि तेषां योगदानम् अविस्मरणीयम्। अस्य साम्राज्यस्य पतनस्य कारणीभूताः उत्तरभारते साम्राज्यस्थापनं कृतवन्तः सुल्तानाः। एते सुल्तानाः रजपूतानां स्थानस्य देहल्याः समीपे एव प्रथमं राज्यस्थापनम् अकुर्वन्। विजयनगरसाम्राज्यस्य पतनेन सह २००० वर्षाणि यावत् पुरातनी भारतस्य अभिजातसंस्कृतिः ह्रासमार्गम् आप्नोत्, भारतीये इतिहासे नवः अध्यायः च आरब्धः। (अधिकवाचनाय »)