4.21 चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसंकरश्च

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


पतञ्जलिः

सूत्रसारः

व्यासभाष्यम्

स्यान्मतिः—स्वरसनिरुद्धं चित्तं चित्तान्तरेण समनन्तरेण गृह्यत इति । अथ चित्तं चेच्चित्तान्तरेण गृह्येत, बुद्धिबुद्धिः केन गृह्यते ? साप्यन्यया साप्यन्ययेत्यतिप्रसङ्गः । स्मृतिसंकरश्च—यावन्तो बुद्धिबुद्धीनामनुभवास्तावत्यः स्मृतयः प्राप्नुवन्ति । तत्सङ्कराच्चैकस्मृत्यनवधारणं च स्यादित्येवं बुद्धिप्रतिसंवेदिनं पुरुषमपलपद्भिर्वैनाशिकैः सर्वमेवाकुलीकृतम् । ते तु भोक्तृस्वरूपं यत्र क्वचन कल्पयन्तो न न्यायेन सङ्गच्छते । केचित्सत्त्वमात्रमपि परिकल्प्यास्ति, स सत्त्वो य एतान्पञ्च स्कन्धान्निक्षिप्यान्यांश्च प्रतिसन्दधातीत्युक्त्वा, तत एव पुनस्त्रस्यन्ति । तथा स्कन्धानां महानिर्वेदाय विरागायानुत्पादाय प्रशान्तये गुरुरन्तिके ब्रह्मचर्यं चरिष्यामीत्युक्त्वा सत्त्वस्य पुनः सत्त्वमेवापह्नुवते । साङ्ख्ययोगादयस्तु प्रवादाः, स्वशब्देन पुरुषमेव स्वामिनं चित्तस्य भोक्तारमुपयन्तीति ॥२१॥

सम्बद्धाः लेखाः

योगदर्शनम्

पतञ्जलिः

अष्टाङ्गयोगः

अन्ताराष्ट्रिययोगदिवसः

बाह्यसम्पर्कतन्तुः

फलकम्:Wikisourcelang

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

पतञ्जलियोगसूत्रम्

योगसूत्राणि शृण्वन्तु

आङ्ग्लानुवादेन सह योगसूत्रम्

स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः

फलकम्:शिखरं गच्छतु