११.४६ किरीटिनं गदिनं...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
किरीटिनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टुमहं तथैव ।
तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते ॥ ४६ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य षड्चत्वारिंशत्तमः(४६) श्लोकः ।

पदच्छेदः

किरीटिनं गदिनं चक्रहस्तम् इच्छामि त्वां द्रष्टुम् अहं तथा एव तेन एव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते ॥ ४६ ॥

अन्वयः

(हे) सहस्रबाहो ! विश्वमूर्ते अहं किरीटिनं गदिनं चक्रहस्तं त्वां तथा एव द्रष्टुम् इच्छामि । चतुर्भुजेन तेन रूपेण एव (उपलक्षितः) भव ।

शब्दार्थः

विश्वमूर्ते = विश्वाकार !
अहं किरीटिनम् = अहं मुकुटधारिणम्
गदिनम् = गदाधरम्
चक्रहस्तम् = चक्रपाणिम्
त्वाम् = त्वाम्
तथा एव = तेन एव प्रकारेण
द्रष्टुम् = विलोकितुम्
इच्छामि = अभिलषामि
सहस्रबाहो = सहस्रहस्त !
चतुर्भुजेन = चतुर्हस्तेन
रूपेण एव (उपलक्षितः) = आकारेण एव विशिष्टः
भव = वर्तस्व ।

अर्थः

विश्वाकार ! किरीटधारित्वेन गदाधारित्वेन चक्रपाणित्वेन च यत् सौम्यं रूपं पूर्वं मां प्रदर्शितवान् असि तदेव रूपं सम्प्रति द्रष्टुमिच्छामि । हे सहस्रबाहो ! तेनैव रूपेण आविर्भव ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=११.४६_किरीटिनं_गदिनं...&oldid=2241" इत्यस्माद् प्रतिप्राप्तम्