होशङ्गाबादमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement

नर्मदापुरममण्डलम् (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य नर्मदापुरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति नर्मदापुरम इति नगरम् ।

भौगोलिकम्

होशङ्गाबादमण्डलस्य विस्तारः ६,७०३ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य मध्यभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे छिन्दवाडामण्डलं, पश्चिमे सीहोरमण्डलम्, उत्तरे रायसेनमण्डलं, दक्षिणे बैतूलमण्डलम् अस्ति । अस्मिन् मण्डले नर्मदानदी प्रवहति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं होशङ्गाबादमण्डलस्य जनसङ्ख्या १२,४१,३५० अस्ति । अत्र ६,४८,७२५ पुरुषाः, ५,९२,६२५ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १८५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १८५ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १४.४९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९१४ अस्ति । अत्र साक्षरता ७५.२९% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि- होशङ्गाबाद, सिवनी-मालवा, डोलरिया, बाबई, सोहागपुर, पिपरिया, बानखेडी ।

वीक्षणीयस्थलानि

पचमढी

पचमढी इति इदं स्थलम् एकस्मिन् लघुशैले स्थितमस्ति । इदं भ्रमणार्थम् एकं रमणीयं पर्वतस्थलम् अस्ति । इदं एकं यात्रास्थलमपि अस्ति । शिवभक्ताः वीक्षणार्थं तत्र गच्छन्ति । सम्पूर्णभारतस्य जनाः तथा वैदेशिकाः अपि तत्र गच्छन्ति ।

सेठानी घाट

इदं स्थलं नर्मदानदीतटे स्थितमस्ति । तत्र बहूनि मन्दिराणि सन्ति । नर्मदानद्यां स्नानस्य आनन्दाय जनाः तत्र गच्छन्ति । पाण्डव-गुहा, बडा महादेव, गुप्त महादेव इत्येतानि अपि अस्य मण्डलस्य प्रमुखानि वीक्षणीयस्थलानि सन्ति । फलकम्:Geographic location फलकम्:मध्यप्रदेशराज्यम्

बाह्यसम्पर्कतन्तुः

फलकम्:Commons http://hoshangabad.nic.in/
http://www.census2011.co.in/census/district/316-hoshangabad.html फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=होशङ्गाबादमण्डलम्&oldid=1075" इत्यस्माद् प्रतिप्राप्तम्