हेमन्तचर्या

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


हेमन्ते जाठराग्निर्बलवान्। स चाधिकमन्नरूपमिन्धनमपेक्षते।अतोऽस्मिन् ऋतौ मधुराम्ललवणरसात्मकानि भोज्यान्यधिकं भोक्तव्यानि। अन्यथा इन्धनाभावादग्निर्धातून्पचति, बलहानिं च जनयति।हेमन्ते निशा दीर्घा:। तेन प्रातरेव नरा बुभुक्षवो भवन्ति। अत: प्रातरेव नरै: क्षुधा शमनीया।रौक्ष्यमधिकमतोऽभ्यङ्गो विशेषत: कार्य:।शैत्याधिक्यमस्त्यत: उष्णजलेनैव स्नान-माचरितव्यम्।अगरु-वचा-हरिद्रासदृशैरुष्णद्रव्यै: शरीरस्योद्वर्तनं कार्यम्। बलमुत्तममस्ति, अतो व्यायाम: शक्त्यनुसारमाचरणीय:।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=हेमन्तचर्या&oldid=8439" इत्यस्माद् प्रतिप्राप्तम्