हृदयमुद्रा (सञ्जीवनीमुद्रा )

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ



हृदयमुद्रां अपानवायुमुद्रा इत्यपि कथयति । अपान-वायुमुद्रा च एककाले करणीया । इयं बहु प्रमुखमुद्रा अस्ति । हॄदयाघातसमये सञ्जीविनिरीत्या वेदनां शमनं कृत्वा प्राणापायेन रक्षति । इयं मुद्रा शीध्रपरिणामकारिणी अस्ति ।

करणविधानम्

तर्जनीम् अङ्गुष्टस्य मूले स्पर्षयित्वा अङ्गुष्टेन तस्य उपरि नोदनं करणीयम् । अनन्तरं मध्यमा तथा अनामिकायाः अग्रभागं अङ्गुष्टस्य अग्रभागे स्पर्षनीयम् ।

परिणामः

वायुमुद्रा तथा अपानमुद्रायाः लाभः एककाले भवति । वायुप्रकोपस्य उपरि - रक्तसन्चलन- पचनयोः उपरि प्रभावः अनया मुद्रया भवति ।

उपयोगः

  • हृदयाघातसमये शीध्रपरिणामं ददाति । हृदयाधातस्य वेदनाम् अपि शमनं करोति ।
  • हॄदयस्पन्दनं व्यवस्थितं करोति ।
  • वायुप्रकोपेन हृदये वेदना सम्भवतिचेदपि अनया मुद्रया वेदना दूरीभवति ।
  • मैग्रैन् शिरोवेदनापि इयं मुद्रा शमनं करोति ।
  • उदरे वातप्रकोपः अस्ति इति यदा ञायते तदा इयं मुद्रा प्रतः-सायं १५ निमेषपर्यन्तं क्रियते चेत् हृदयाघातः न सम्भवति ।
  • हस्तपादयोः स्वेदः आगच्छति चेत् इयं मुद्रया समीचीनं भवति ।
  • मूत्रविसर्जनं सुलभतया भवति ।
  • उदरे स्नायुनां कार्यं समर्थतया भवति ।
  • द्न्तरोगशमनं भूत्वा वेदना दूरीभवति ।
  • मूलव्याधिः गुणीभवति ।

==वि.सू== जागरणं कृतं चेत्, अतिचिन्ता कृता चेत्, अतिपरिश्रमेण कार्यं कृतं चेत्, अनिवार्यरूपेण इयं मुद्रा करणीया । उन्नतभवनस्य आरोहण समये, शैलस्य आरोहण समये, इमां मुद्रां कृत्वा निमेषद्वयं स्थित्वा अनन्तरं गन्तव्यम् । कोलाहलः, मानसिक चन्चलताश्च यदा सम्भवति तदा इयं मुद्रा कृता चेत् उत्तम परिणामः भवति । वातरोगः वायुमुद्रया न शमनं भवति चेत् इयं मुद्रा करणीया ।

सम्बद्धाः लेखाः