हिमसंसर्पणक्रीडा

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Prettyurl हिमसंसर्पणक्रीडा(Skiing) साहसिकक्रीडासु अन्यतमा ।

Skier-carving-a-turn.jpg

एषा एका पुनर्बलनक्रीडा इत्यपि वक्तुं शक्यते । शारीरक, मानसिकरूपेण च एषा क्रीडा पुनर्बलनं ददाति । हिमावृतायां भुवि संसर्पणप्रतियोगितायां काष्ठपट्टिके पादयोः धारयित्वा सन्तुलनपूर्वकं, शीघ्रतया, कूर्दनेन, अवतरणेन, तिर्यग् गत्या वा स्त्रियः पुरुषाश्च क्रीडन्ति । हिमाच्छन्नप्रदेशेषु जना आनन्ददायिनीं प्रवृत्तिम् इमां साधयन्तः कालान्तरेण तत्र प्रावीण्यं भजन्ति ततश्च प्रतियोगितासु भागम् अपि गृह्णन्ति । अस्यां क्रीडायां नानाविधा अन्या अपि क्रिया नर्तन-कूर्दन-विपरीत-गमन-वृत्ताकार-भ्रमण-युग्मक-धावन- प्रभृतयः प्रवर्तिताः सन्ति । उपानद्रूपेण धारणीये प्रलम्बे पट्टिके विशिष्य निर्मिते भवतः ।

इतिहासः

हिमसंसर्पणक्रीडा प्राचीनक्रीडा वर्तते । अस्याः क्रीडायाः आरम्भस्याधारः सुष्टु रीत्या नार्वे, स्वीडणन्-देशे च उपलभ्यन्ते । एषा क्रीडा क्रिस्तोः पूर्वं ५००० तमात् वर्षादारब्धा वर्तते इति नार्वेदेशस्य नोर्ड्-लाण्ड्-प्रदेशे आधाराः लभ्यन्ते । प्रायः प्रथम हिमसंसर्पणं क्रिस्तोः पूर्वं ४५०० वर्षात् अथवा २५०० वर्षात् पूर्वम् आरब्धं वर्तते इति स्वीडणन्-देशे डेटिङ्ग्-द्वारा ज्ञातम् ।

आधारः

अभिनवक्रीडातरंगिणी

"https://sa.bharatpedia.org/index.php?title=हिमसंसर्पणक्रीडा&oldid=7287" इत्यस्माद् प्रतिप्राप्तम्