हिण्डोलरागः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


फलकम्:हिन्दुस्तानि रागः

हिण्डोलरागः (Hindol Raga) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन प्रसिद्धः रागः भवति । उत्तराङ्गप्रधानः रागः भवति । प्रभातकालीनरागः भवति । अयं रागः वीररसप्रधानः रागः भवति । अस्मिन् रागे तीव्रमध्यमः अस्ति । रागस्य जीवभूतः वादिस्वरः धैवतः (ध) भवति । संवादिस्वरः गान्धारः (ग) भवति । अयं रागः "कल्याणथाट" गणे विद्यमानः भवति । ’ध्रुपद्’ तथा ’धमार्’ शैल्योः अधिकतया अस्य रागस्य उपयोगः भवति । ’भरत’ तथा ’हनुमतमतयोः’ प्रकारेण मूलभूतेषु ६ रागेषु अन्तर्भूतः रागः भवति ।

नितम्बनीमण्डितरङ्गितासौ
दोला सुखेला सुखमादधानः।
खर्वः कपोलद्युतिकामयुक्तो
हिण्डोलरागः कथितो मुनीन्द्रैः॥
  • आरोहः – स ग म ध नि ध स
  • अवरोहः – स नि ध म ग स
  • पक्कड – ग म ध, ग म ग स

समयः

प्रातः कालीनरागः भवति ।

थाट्

  • कल्याण

बाह्यसम्पर्कतन्तुः

फलकम्:हिन्दूस्थानीयसङ्गीतम्

"https://sa.bharatpedia.org/index.php?title=हिण्डोलरागः&oldid=10585" इत्यस्माद् प्रतिप्राप्तम्